यदपि त्वमस्य जगतः प्रभवो ननु सर्वविच्च परमः पुरुषः ।
तदपि त्वयैव सह वादकृते हृदयं बिभर्ति मम तत्कलिकाम् ॥
५७
इति यायजूकसहधर्मचरीकथितं वचोऽर्थवदगर्हपदम् ।
मधुरं निशम्य मुदितः सुतरां प्रतिवक्तृमैहत यतिप्रवरः ।।
यदवादि कलहोत्सुकतां प्रतिपद्यते हृदयमित्यबले ।
तदसांप्रतं न हि महायशसो महिलाजनेन कथयन्ति कथाम् ॥ ५९
स्वमतं प्रभेत्तुमिह यो यतते स वधूजनोऽस्तु यदि वाऽस्त्वितरः ।
यतितव्यमेव खलु तस्य जये निजपक्षरक्षणपरैर्भगवन् !! ६०
अत एव गार्ग्यभिधया कलहं सह याज्ञवल्क्यमुनिराडकरोत् ।
जनकस्तथा सुलभयाऽबलया किममी भवन्ति न यशोनिधयः॥
इति युक्तिमद्गदितमाकलयन्मुदितान्तरः श्रुतिसरिज्जलधिः ।
स तया विवादमधिदेवतया वचसामियेष विदुषां सदसि ।। ६२
अथ सा कथा प्रववृते स्म तयोरुभयोः परस्परजयोत्सुकयोः ।
मतिचातुरीरचितशब्दझरी श्रुतिविस्मयीकृतविचक्षणयोः ॥
अनयोर्विचित्रपदयुक्तिभरैर्निशमय्य संकथनमाकलितम् ।
न फणीशमप्यतुलयन पपीं न गुरुं कविं किमपरं जगति ॥ ६४
न दिवा न निश्यपि च वादकथा विरराम नैयमिककालमृते ।
इति जल्पतोः समपनल्पधियोर्दिवसाश्च सप्त दश चात्यगमन् ।।
अथ शारदाऽकृतकवाक्पमुखेष्वखिलेषु शास्त्र निचयेषु परम् ।
तमजय्यमात्मनि विचिन्त्य मुनि पुनरप्यचिन्तयदिदं तरसा ॥
अतिबाल्य एव कृतसंन्यसनो नियमैः परैरविधुरश्च सदा ।
मदनागमेष्वकृतबुद्धिरसौ तदनेन संपति जयेयमहम् ॥ ६७
इति संपधार्य पुनरप्यमुना कथने प्रसंगमथ संगतितः ।
यमिनं सदस्यमुमपृच्छदसौ कुसुमास्त्रशास्त्रहृदयं विदुषी ॥ ६८
पृष्ठम्:शङ्करदिग्विजयः.djvu/१०५
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ९]
99
श्रीमदाचार्यसरस्वतीसंवादः