पृष्ठम्:शङ्करदिग्विजयः.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
98
[नवमः
श्रीमच्छङ्करदिग्विजये

यतिपुण्डरीक तव वेद्मि मनो ननु पूर्वमेव विदितं च मया ।
इह भावि तापसमुखादखिलं तदुदीर्यते शृणु ससभ्यजनः ।।
४५

मयि जातु मातुरुपकण्ठजुषि प्रभया तडित्प्रतिभटोच्चजटः ।
सितभूतिरूषितसमस्ततनुः श्रमणोऽभ्ययादपरसूर्य इव ॥
४६

परिगृह्य पाद्यमुखयाऽर्हणया रचिताञ्जलिनमितपूर्वतनुः ।
जननी तदाऽऽत्तवरिवस्यममुं मुनिमन्वयुङ्क मम भाव्यखिलम् ॥ ४७

भगवन्न वेद्मि दुहितुमम भाव्यखिलं च वेत्ति तपसा हि भवान् ।
प्रणते जने हि सुधियः कथयन्त्यपि गोप्यमार्यसदृशाः कृपया ॥ ४८

कियदायुरवाप्स्यति सुतान् कति वा दयितं कथंविधमुपैष्यति च ।
अथ च क्रतूनपि करिष्यति मे दुहिता प्रभूतधनधान्यवती ॥ ४९

इति पृष्टभाविचरितः प्रसुवा क्षणमात्रमीलितविलोचनकः ।
सकलं क्रमेण कथयन्निदमप्यपरं जगाद सुरहस्यमपि ।।

निगमाध्वनि प्रबलबाह्यमतैरमितैरधिक्षिति खिले दुहिणः ।
पुनरुद्दिधीर्षुरवतीर्य खलु प्रतिभाति मण्डनकवीन्द्रमिषात् ॥ ५१

तमवाप्य रुद्रमिब साऽद्रिसुता दुहिता तवाच्युतमिवाब्धिसुता ।
अनुरूपमाहृतसमस्तमखा ससुता भविष्यति चिरं मुदिता ॥
५२

अथ नष्टमौपनिषदं प्रबलैः कुमतैः कृतान्तमिह साधयितुम् ।
ननु मानुषं वपुरुपेत्य शिवः समलंकरिष्यति धरां स्वपदैः ॥

सह तेन वादमुपगम्य चिरं दुहितुः पतिस्तु यतिवेषजुषा ।
विजितस्तमेव शरणं जगतां शरणं गमिष्यति विसृष्टगृहः ॥ ५४

इति गामुदीर्य स मुनिः प्रययौ सकलं यथातथमभूच्च मम ।
भवदीयशिष्यपदमस्य कथं वितथं भविष्यति मुनेर्वचसि ॥

अपि तु त्वयाऽद्य न समग्रजितः प्रथिताग्रणीर्मम पतिर्यदहम् ।
वपुरर्धमस्य न जिता मतिमन्नपि मां विजित्य कुरु शिष्यमिमम् ॥ ५६
५३