पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ श्र स्येव अतिगम्भीरभाष्यकारवचःसन्दर्भार्थावगमनसिद्धाञ्जनौषधिभूतां अन्वर्थी तात्पर्य दीपिकां कलितललितमृदुलमुमापदबन्धां व्याख्यामतठिकां अनुजगृहुः, परमया कृपया । अस्या अपि 'श्रुतप्रकाशिका ' इत्यपि व्यवहार, समति । तदपि युक्ततम मेवेत्युत्पश्यामः; यत एतेषां श्रीसुदर्शनमट्टारकमहाभागानां “श्रुतप्रकाशिकाचार्याः । इत्येव प्रसिद्धिः सर्वत्र समाविरस्ति । “गुरुभ्योऽर्थः श्रुतः शब्दैः तत्प्रयुतैश्च योजितः । सकयाय बुभुत्सूनां संकलय्य प्रकाश्यते।।' इति श्रीभाप्थव्याख्यायां प्रतिपादितः परमार्थः, अत्रापि समुल्लसति विल । एते च महाप्राज्ञः सुनिशितधियः श्रीवत्सांकमिश्रा इव एकसन्धाग्राहिण अहङ्कारमकारदरगा विनयविभूषिता इति, हेन्नः परं आमोदः । को वा तदितरः प्रेक्षावान् ताट्शमहामावसंकलितमहाप्रबन्धनिबन्ध, तथा प्रतिपादयेत् “गुरुभ्योऽर्थ कः कृत्त्रं वेतेि भाप्यार्थम् भाप्यं चेद्यावृणोत् स्वयं यतिपतेि १) { तेषां चरित्रसमयवैभवादिकं सर्वमपि श्रीभाष्यव्याख्यानस्य भूमिकायां प्रपञ्च विप्यते, श्रीमतां भगवद्भागवताचार्याणां परमेण अनुग्रहेण अचिरादेव प्रकाश्यमानस्य , इति शम् ।। कृतज्ञतानिवेदनम् अपदार्थमिमं दासजनं पदार्थीकृत्य, महाप्राज्ञेकनिर्वहणीये तद्वैभवप्रकाशकं श्रीवैष्णवसम्प्रदायग्रन्थसम्पादनकार्यभरेऽस्मिन् नियोजितवतः, पङ्गोरुपरि गङ्गाप्रवाह इव, सर्वदा सर्वथा चातिमात्रं कटाक्षामृतरसममिवर्षयतः, श्रीशेषाद्विशिखावलाहकस्य, दीन जनमन्दारय, श्रीमन्मङ्गलदेवतालिङ्गितस्य, सर्वाङ्गीणरमणीयदिन्यमङ्गलगुणविग्रहविभूतिकस्य कलियुगप्रत्यक्षदैवतम्य, निखिलवेदवेदान्त-तदुपहणादिनिविलप्रमाणप्रतिपाद्यमानवैभक्स्य तकृतिपतेः, श्रीमतः श्रीनिकेतनस्य, सर्वदेशसर्वकालसर्वावस्थास्वपि धन्यवादानति मात्रमपयन् , “सदाऽहमैकान्तिकनियकिङ्करः प्रहर्षयिष्यामि सनाथजीवितम् " इति सन्त साञ्जलिबन्धं निवेदयामि ।