पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपाधिविशेषेण सम्बद्धं बध्यते, मुच्यते च नानाविधमलरूपपरिणामास्पदं च !” इति विशदीक्रयते । अत्रापि उपक्षेपः तत्प्रतिपादनवेलायामेव विज्ञायते । “सत्योपाधिमिश्रे सकलकल्याणगुणाकरं ब्रव, तेन ऐक्थावबोधेन बध्यते; स एव संसारः । वर्णाश्रमधर्मानुष्ठानसहकृत – चाक्यजन्यज्ञानपूर्वक-उपासनात्मकज्ञानेन उपाधिः नश्यति, स एव च मोक्षः ” इति एतन्मतसारांशः । श्रीयादवमतसंग्रहप्रकारः

  • अशुभम्यास्पद') िमित सङ्गहीतो यादवपक्षः, “स्वाभाविकनिरतिशय

अपरिमितोदारगुणसागरं ब्रौव, सुर-नर-र्तिर्यक्-स्थावर-नारकेि-स्वर्गि-अपवर्गि चेतनैकस्वभावम्, स्वभावनो विलक्षणं च अविलक्षणं च वियदादिनानाविधपरिणाभास्पदं च' इति व्याख्यायते । अत्रापि पदे पदे उपक्षेपः स्कोर्यत एव ।

  • सन्मात्रमेव ब्रह्म सत्यचिदचिदीश्वरात्मकतया परिणमति । तस्य तैस्सह

भेदज्ञानं –संसारमूलभ्रमः । ज्ञानकर्मसमुचयात् भेदज्ञानाशः – मोक्षः ” इति एतन्मतसाराशः । श्रीशङ्कराचार्याणां देशकालादिनिर्णयः श्रीशङ्करभगवत्पादाचार्याणां तु कालविषये विविधा विप्रतिपत्तय उपलक्ष्यन्ते । प्राचीनास्तु “२३९३ तमे कलियुगे श्रीमति केरलदेशे आल्वे (चूणीं) नद्यास्तीरे कालडिनामके ग्रामे प्रादुरभूवन्नेते आचार्या' इति अभिवर्णयन्ति । आधुनिकविमर्शकास्तु क्रीस्तुशके सप्तमे, अष्टमे वा एते आसन्, प्रायशः श्रीकुमारिलभट्टपादानां समानकालिका भवेयुरिित च अनेके निश्चिन्वन्ति । श्रीभास्कराचार्याणां देशकालादिनिर्णय भेदाभेदवादिनः श्रीमन्तो भास्कराचार्याः –श्रीशङ्करभगवत्पादाचार्याणां परतः, श्रीमद्रामानुजाचार्याणां पूर्वतश्ध आसन्निति सम्यज्ज्ञायते । यद्यपि लोकभास्कर-ौगाक्षि भास्कर -श्रौतभास्करादयोऽनेके भास्करा उपलभ्यन्ते । तेष्वयं भास्कराचार्यः कः ? इति निर्णयः परिश्रमावहो भवति, तथापि “ब्रह्मपरिणतेति भास्करगोले युज्यते ।