पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्र सर्वासां श्रतीनामैककण्ठ्यनिरूपणघटे, भतेरुपायत्वनिरूपणस्थले नित्य विभूतेः समर्थनादिप्रदेशेषु च प्रतिपादनशैली-परमरमणीया, निसर्गनिरर्गलनिरुपम् निकाभसरलगम्भीरा मानसं परं द्रावयति प्रामाणिकानां सहृदयतलजानाम् । अत्र, * चार्वाक-शाक्य-औलूक्य-अक्षपाद-क्षपणक-कपिल-पतञ्जलि मतानुसारिणेो वेदबाह्याः, वेदावलम्बिभिः कुष्टिभिस्सह निरताः' इति इतरमतप्रति क्षेपोऽपि स्पष्टमुपक्षिप्यते । ग्रन्थेऽस्मिन् प्राधान्येन श्रीमतामद्वैतमतप्रवर्तकाचार्याणां भगक्तां शङ्कर भास्कर-यादवाचार्यचरणानां मतानि त्रीणि संग्रहविस्ताररूपेण सम्यङ् निरूप्यन्ते निराक्रियन्ते च श्रुतिन्यायापेतत्वव्यवस्थापनपुरस्सरं सप्रमाणोपपति सप्रपञ्चम् । अपिच , अनादिसिद्धो विशुद्धः स्वसिद्धान्त एव. सर्वश्रुति-स्मृति-पुराण-आगम-इति हासादिप्रसिद्धः, भगवादरायण -बोधायन – आचार्यटङ्क-द्रमिडाचार्य–गुहदेव भारुच्यादि – सत्सम्प्रदायसिद्धः सर्वशास्रह्मदयसर्वस्वभूत इतेि च सम्यक् िवशदीक्रियते। श्रीशङ्करमतसंग्रहप्रकारः द्वितीयमङ्गलोके –“परं ब्रौषामं भ्रमपरिगतं संसरति' इति सहीतः श्रीशङ्करभगवत्पादानां पक्षः, “निर्विशेषज्ञानमात्रमेक् ब्रह्म; तच नित्यमुक्तस्वप्रकाशमपि तत्त्वमस्यादि – सामानाधिकरण्यावगत – जीवैक्यम्; ब्रलैव अज्ञम्, बध्यते, मुच्यते च; निशेिषचिन्मात्रतिरेकेि ईश-ईशितव्यादि अनन्तविकल्पस्वरूपं कृत्रं जगत् मिथ्या;........ आचार्यो ज्ञानस्य उपदेष्टा मिथ्या: प्रमाता मिथ्या: शास्त्रं च मिथ्या ; शास्त्रजन्यज्ञानं च मिथ्या; एतत्सर्वे मिथ्याभूतेनैव शाखेणावगतम्' इति विक्रियते। अत, तन्मतप्रतिपादनवेलायामेव तन्मतौस्थ्यमपि पदे पदे समुपक्षिप्यते ।

  • निर्विशेषचिन्मात्रं ब्रह्म मायाशबलं भ्रमति । स एव – संसार । “ तत्व

मसेि ) इत्यादिवाक्यजन्यज्ञानेन भ्रमनिवृत्तिः – मोक्षः ' इति एतन्मतसारांशः । श्रीमास्करमतसंग्रहप्रकारः एवं “तत् परोपाध्यालीढम्' इति सङ्गहीतः श्रीभास्कराचार्यचरणानां पक्षः, “अपहतपाप्मत्वादि-समस्तकल्याणगुणोपेतमपि ब्रह्म, तेनैव ऐक्यावोधेन केनचित्।