पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति श्रीमन्यायकुसुमाञ्जलैौ श्रीमदुदयनाचार्येरलेखात् , तेभ्यः पूर्वतना एते इ,ि “भास्करः – त्रिदण्डिमतभास्करः ?” इति श्रीवर्धमानोपाध्यायविवरणेन, एते त्रिदण्डि सन्यासिनः, इति च निर्णेतुं शक्यते । उदयनाचार्याणां कालस्तु, तैरेव लक्षणावल्यां तकाम्बरांक (९०६) प्रमितेष्वतीतेषु शाकान्ततः । वर्षपूदयनश्चके सुबोधां लक्षणावलीम् ।।' इति निदेशात्, स्फटं विज्ञायते । स च समयः क्रीस्तुशके १०८४ वर्षों भवति । अपिच तत्रभवद्विर्वाचस्पतिमिश्रेरपि भामत्यां उदाह्रियन्ते भास्कराचार्थाः । अतस्ततोऽपि पूर्वतना एवैते-इति अभ्युपगन्तव्यं भवति खलु । श्रीमतां वाचस्पति मिश्राणां कालोऽपि तु तेरेव निरधरि न्यायसूचीनिबन्धे न्यायसूचीनिबन्धोऽसावकारि सुधयां मुदे । श्रीवाचस्पतिमिश्रेण बस्वंकवसु (८९८) वत्सरे । इति । स च क्रीस्तुशके ९७६ वर्षों भवति । अतः, ततः पूर्वमेव एतेषां स्थिििरति विज्ञायते । श्रीमद्भास्कराचार्यचरणानां भाष्यं तु ब्रह्मसूत्राणामुपलभ्यते । तत्र आदित आरभ्य अनेकेषु स्थलेषु शाङ्करमतं निराक्रियते। तद्यथा सूत्रामप्रायसवृत्त्या स्वाभप्रायप्रकाशनात् । व्याख्यातं यैरिदं शास्र व्याख्येयं तन्निवृत्तये । इति प्रतिज्ञाश्लोके शाङ्करभाप्यमेवाधिक्षप्यते; यत उतरत्र * तथा च वाक्यम् “परिणामस्तु स्याद्दध्यादिवत्' इति विगीतं विच्छिन्नमूलं माहायनिकबौद्धगाथायुतं मायावाद व्यावर्णयन्तो लोकान् व्यामोहयन्ति ” इति, *ये तु बौद्धमतावलम्बिनो मायावादिनः, तेऽप्यनेन न्यायेन सूत्रकारेणैव निरस्ता वेदितव्याः " इति च मुक्तकण्टं अभ्यभाषि ।