पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीभाष्ये वेदार्थसंग्रहस्य समुलेखात्, अयं श्रीभप्यात् पूर्वमेव आरचित इति, ततश्च तदनन्तरकालिकेभ्यो वेदान्तदीपादिभ्यश्च पूर्वतन इति च निश्चप्रचोऽयं विषयः । परं तु वेदान्तसारात्पर इत्यत्र किश्चदिव वक्तव्यमाफ्तति । वेदान्तसारः-- वेदार्थसंग्रहश्च वेदान्तसरे तु वाक्यकारद्रमिडाचार्यावेव िनिर्दष्ट, वेदार्थसंग्रहे तु भगवद्वोधा यन-गुहदेव-भारुच्यादयः अनेके आचार्याः नामतो गृहीताः । अद्वैतमतत्रितयं वेदान्तसारापेक्षया अत्र सम्यङ् निरूप्यते, तस्य निराकरणमपि अतिविशिष्टविशदप्रक्रिया क्रियते । नारायणपरत्वं, भक्तिप्रपत्योः परमोपायत्वम्, प्रतितन्त्रसिद्धः जगद्रह्मणः शरीरशरीरिभावः, सर्वसां श्रुतीनां, सर्वेषामपि प्रमाणानां अतिविशिष्टः समन्वयः प्रकारः, सकलशाखहृदयसर्वस्वम् – इत्यादयोऽनेके अंशाः चतुरश्रतया अत्र िनरूपितः । 'कप्यास ' शब्दार्थः, वेदान्तसारे 'रविकरविकसित पुण्डरीकनयनस्य ' इत्येतावदेव प्रतिपाद्यते; अत्र तु “गम्भीराम्भ:समुदूत सुमृष्टनाल-रविकरविकसित -पुण्डरीकदलामलायतेक्षणः' इति परिकृत्य समुप वण्यते । सद्विद्यावाक्यादयोऽपि सर्वे वाक्यविशेषाः सप्रपञ्चं व्याख्यायन्ते । सप्तविधा नुपपतयः, निर्विशेषवस्तुनो निष्प्रमाणकत्वम्, निर्विकल्पकप्रत्यक्षस्य सविशेषविषय त्वम् -इत्यादयोऽपि नैकविधा बादाः सरलगम्भीरमुपन्यस्यन्ते । स्वसिद्धान्तसिद्धाः नित्यविभूतिसद्भावादयोऽपि अयेके विशेषाः सपरिकरवन्धं सप्रमाणोपपति निरूप्यन्ते । आदित आरभ्य आपरिसमाप्ति, अतिविशिष्टा विलक्षणा रचनाधोरणी, निरर्गल निसगोदात्तनितान्तकान्तगम्भीरा अमृतरसनिप्यन्दपरीवाहायमाना सर्वानपि सहृदयान् अतिमात्रमावर्जयति, निमज्जयति आनन्दामृतदुग्धवरिधौ, उन्मज्जयति च अज्ञानान्धकार बन्धुर –कुतर्ककुहनामोहजलघेितः – इति नितरां अतिरोहितोऽयं विषयः समेषा मपि निरूपकाणाम् अतोऽयं ग्रन्थः सुश्लिष्टपदबन्धसन्दर्भहृद्यानवद्यगुम्भ: वेदान्तसारात्परतरः-इति युस्फटं सिद्धयति ।