पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनाकलितश्रुतिस्मृतीतिहासपुराणन्यायस्वचाविरोधैरज्ञानिभिः जगन्मोहनाय प्रवर्तिता इति अनादरणीयः' इति निरस्य, “अत्रेदं तत्त्वम्' इति सर्वासां श्रुतीनां स्वरूप स्वभावैो निरुप्य, “ एवं चिदचिदीश्वराणां स्वरूपभेदं स्वभावभेदं च वदन्तीनां, कार्य कारणभावं कार्यकारणयोरनन्यत्वं वदन्तीनां च सार्वासां श्रुतीनामविरोधः, चिदचितोः परमात्मनश्च सर्वदा शरीरात्मभावं, शरीरभूतयोः कारणदशायां नामरूपानर्हसूक्ष्मदशा प,ि कार्यदशायां च तदर्हस्थूलदशापतिं वदन्तीभिः श्रुतिभिरेव ज्ञायत इति, ब्रह्माज्ञान बादस्य, औपाधिकब्रह्माभेढ़वादस्य अन्यस्यापि अन्यायमूलस्य सकलश्रुतिविरूद्धस्य न कथञ्चिदप्यवकाशो दृश्यत इति अलमतिविस्तरेण ? इति अभिवार्यते । अयं प्रघट्ट वेदार्थसंग्रह-श्रीभाप्य-वेदान्तदीपेषु सुनिपुणविशदं प्रतिपादितस्य प्रमेयस्य अतिपौडेन सन्दर्भण सङ्गहरूप एवे,ि तद्भन्थसन्दर्भपरिशीलने सुस्फुटमवगम्यते । अत्रापि – “स्वपक्षे सर्वप्रकाराविरोधै, परपक्षेषु च सर्वप्रकारविरोधं श्रुत हानाश्रुतकल्पनाद्विरुपं संग्रहेण वदनुपसंहरित' ” इ,ि “अत्र 'अन्यस्यापि' इति यादवप्रकाशनैयायिकाद्यभिमतयोजनासंग्रहः ? इति च तात्पर्यचन्द्रिका । एवमाभ्यन्तरनिदानपरिशीलने, अथं क्रमः सूपपन्न एवेति ज्ञायते । निसर्ग निर्मलनिरर्गलगम्भीरनिष्यन्दी हृद्यानवद्यमृदुमधुरमङ्गलवचनरचनाप्रवाहोऽपि विषयममुं उत्तम्भयनि गद्यलयम्-इदं शरणागस्विरूपानुष्टान-तत्फलावाप्तिप्रबोधकं परमबिलक्षण मुलोकरमणीयतानिकतनं प्रसन्नगम्भीरं परमोदारप्रसन्नधियां श्रीभगवद्भाप्यकाराणां प्रबन्धेषु अन्तिममेव स्यादित्यत्र न कोऽपि सन्देहः । गुरुपरम्परादिभ्यः तथैवावगम्यते । नित्यग्रन्थः – परमैकान्तिनां भगवदाराधनक्रमादिनिरूपणप्रवणः प्रबन्धो ऽयम्, कदा वा आरचित इति वक्तुं सुदृढं प्रमाणं किंचिदपि नोपलभ्यते । वेदार्थसंग्रह – वेदार्थसंग्रहोऽयं प्रकृतस्तु निखिलवेदवेदान्त –पुराणेति हासागम-पूर्वाचार्यनिबन्धादिसकलशास्रसर्वस्वभूतः श्रीभगवद्रामानुजमुनिदिव्यप्रबन्धे द्वितीय इति निर्णेतुं शक्यते ।