पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अलम्भवति निखिलवेदान्तशास्त्रप्रक्रियां अवगमयितुम् । करबदरीकरोत्ययं च महान् ग्रन्थः, निखिलशारीरकशास्त्रार्थरहस्यानि सकलजनज्ञानगोचरतया – इत्यतिरोहितोऽयं विषयः सर्वेषां प्रामाणिकानाम् । गीताभाष्यम् –श्रियः फ्या निखिलजगदुदयविमवलयलीलेन पुरुषोत्तमेन जगदुरुणा आश्रितवात्सल्यैकजलधिना निखिलजगतां परमानन्दसम्पादनाय देवीपूर्च सन्ध्यायामविभूतेन अच्युतभानुना जगदूरुणा, अस्थानस्नेहकारुण्यधर्माधर्मधियाऽऽकुलं पार्थ प्रपन्नमुद्दिश्य, तद्युद्धमोत्साहनव्याजेन परमपुरुषार्थलक्षणमोक्षसाधनतया वेदान्तो दितस्य स्वविषयस्य ज्ञानकर्मानुगृहीतस्य भक्तियोगस्य अवतरणाय प्रवर्तितायाः, श्रीगीतायाः सुगेयायाः, समुचितं सर्वाङ्गसुन्दरं अतिरमणीयं निस्तुलं अतिप्रशस्तं परम तत्त्वार्थबोधकं मृदुमधुरमञ्जुलमङ्गलं, श्रीमत्परमगुरुभिः भगवद्यामुनमुनिभिरनुगृहीतस्य श्रीमतो गीतार्थसंगहस्य विशदव्याख्यानभूतं अनतिसंक्षिप्तविस्तृतं भाप्यरतमिदम् । इदञ्च श्रीभाष्यात्परमेव आरचितमिति निर्णेतुं शक्यते । तद्यथा --- अत्र प्रथमाध्याये “न त्वेवाहं जातु नासम्” इति श्रोकविवरणान्ते “कृतमसमीचीनैर्वादै र्निरस्तै: ' इत्यभाषि । अत्र, “ असमीचीन – निरस्त ?’ पद्भ्यां , इतरमतानां असामीचीन्यं, निरासप्रकारं च आवेदयन्तः श्रीमाप्यादयो ग्रन्था उपक्षिप्यन्ते, येन तदुपष्टम्भेन, तत्सिद्धवत्कारेण च अत्रैवमनुगृह्यते – इति सूक्ष्मेक्षिकया परिशीलने सम्यगवगन्तं शक्यते ।

  • अत्र, ' असमीचीनबादै ? रित्यनेन भास्करादिमतेऽप्येवंविधट्टषणशतं शारी

रकभाप्याद्यत्तं स्मारितम् ? इति श्रीमन्निगमान्तमहादेशिकै; कवेिकथककण्ठीरवैः स्पष्टी कृतोऽयं विषयः तात्पर्यचन्द्रिकायाम् । अत्र 'स्मारित पदं अनन्थानेयं क्षेदक्षमं प्रमाणं भवितुमर्हति। अत , श्रीभाष्यादनन्तरमेव गीताभाष्यमारचितं भगवद्भिर्भाष्यकाररिति सिद्धं भवति । अपेिच, “क्षेत्रज्ञ चापि मां विद्धि' इतेि लोकव्याख्याने – “ पृथिव्यादि सातरूपस्य क्षेत्रस्य, क्षेत्रज्ञस्य च भगवच्छरीरैकस्वरूपतया भगवदात्मकत्वं श्रुतयो वदन्ति ? इयारभ्य, मध्ये, “केचित् " इति मतान्तराणि निरूप्य, “एवमादिवादाः,