पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इतिग्रन्थ आरब्धः ; तदनन्तरग्रन्थेषु तु आचार्यवन्दनादिकमपि ग्रन्थादौ िनवद्वमुप लभ्यते । भङ्गलोक-सूत्रयाग्यान - विषयप्रतिप्रादनादिषु यचनरचनाप्रकारः सूक्षपेक्षिक्रया यदि परिशील्यते, तदा अवश्यमयं श्रीभाष्यकाराणां प्रथमः प्रयलः-इति सुस्फटं । ज्ञायत एवेतेि सुधियां निर्णय । बोधयनवृत्तिग्रन्थप्रदानाय संबादिरूपतया काश्मीरराजेन पर्यनुयुक्तः श्रीमदा भार्यपादाः, तदैव प्रणीयैनं तस्मै प्रहिष्वन् । तमिमं वेदान्तसारं बोधायन वृतिप्रतिपाद्यविषयसजातीयविषयपरिमिलिनं सारतमं सरलगभीरं अप्रिशस्तमवलोक्य प्रहृष्टान्तरङ्गेण, तेषु अत्यन्तभक्तिभारमुद्रर्हता, तेन राज्ञा सद्य एव उपहारीकृत बोधायनवृत्तिग्रन् :; एते च विधिवदनिमात्रमभ्यर्चिताः ससम्भ्रमाश्चर्यपुलकिनगात्रेण भक्तिभारनिर्मितीत्तमाङ्गेन सपरिकरबन्धेन साञ्जलिबन्धेन तेन ' इति केषुचित् चारित्रकग्रन्थेषु दरीदृश्यते । अतः, सर्वथाऽयं वेदान्तसारः, प्राथमिक: प्रबन्धः श्रीभगवद्रामानुजीयेषु प्रबन्धेषु इति िनर्णयो नानुपपन्न इनि प्रतिभाति । श्रीभाष्यम् – अतिविपुलां विशिष्टां च श्रीमड्रोधायनीयां वृत्तिमवलम्ब्य, सुविपुलनिपुणं सप्रमाणोपपति सकलमनिकन्धक-कुदृष्टिपक्षविक्षेपणेन भगवद्भिर्भाप्यकारैः साििनवेशादरं प्रत्यवतारितमिदम् सूत्राधिकरणपादाश्यायप्रबन्धानां परमार्थपरिमलपरि मिलि द्विजनमनोरञ्जकं कमनीयमृदुमधुरगम्भीर-पदबन्धसन्दर्भ-रचनाचातुरीविराज मानं समाभ्यधिकदरिद्र सर्वाङ्गसुन्दरं अतिप्रशस्तं “श्रीभाष्यम्' इति सर्वत्र सर्वतः सर्वथा जोधुप्यमाणं श्रीमच्छारीरकमीमांसासूत्राणां अत्युज्ज्वलं भाप्यप्रदीपरलम् । एतदधिकृत्य वक्तव्यं सुमहदति विषयजातम्; तत्सर्वं भगवतः श्रीनिकेतस्य निरवग्रहेणानुग्रहेण अचिरादेव प्रकाश्यमानस्य तदून्थरलस्य भूमिकायां विज्ञापयिप्यते । इदं च वेदान्तसारादिव वेदार्थसंग्रहादपि परत व आविरासीदिनि सुस्फटं विज्ञायते । श्रीमाप्ये हि – जिज्ञासाधिकरणे महापूर्वपक्षे, सद्विद्यावाक्यार्थनिरुपण प्रकरणे – “ प्रपञ्चितश्चायमर्थो वेदार्थसंग्रहे; अत्रापि आरम्भणाधिकरणे निपुणतर मुपपादयिष्यामः ” इति, एवमेव शरीरवचिनां शब्दानां शरीरिपर्यन्तबोधनप्रकरणेऽपि