पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • तदेतत् वाक्यकारश्चाह – “हिरण्मयः पुरुषो दृश्यत इति, प्राज्ञ

स्सर्वान्तरस्यात् लोककामेशोपदेशात् तत्रोदयात् पामनाम्' इत्युक्त्वा, तदूपस्य कार्यत्वं, मायामयत्वं वा? इति विचार्य, “स्याद्रपं कृतकमनुग्रहार्थ तखेतसामैश्वर्यात् । इति निरसनीयं मतमुपन्यस्य “रूपं वाऽतन्द्रियं अन्तःकरणप्रत्यक्षनिर्देशात्” इति । व्याख्यातं च द्रमेिडाचार्ये : –“ न वा मायामात्रम्, असैव वेिश्रऋजो रूपम् ; तत्तु न चक्षुषा ग्राह्यम् : मनसा त्वकलुषेण साधनान्तरवता गृह्यते * न चक्षुषा गृह्यते नापि वाचा, मनसा तु विशुद्धेन इतेि श्रुतेः । न ह्यरुपाया देवताथा रुपमुप दिश्यते; यथाभूतवादि हि शाम्रम् । यथ “ माहारज वासः, वेदाहमेतं पुरुषं महान्तं आदित्यवर्णम् !” इति प्रकरणान्तरनिर्देशात् ' –इति । साक्षिण ’ इति, ‘हेि रण्मय ” इति च रूपसामान्याचन्द्रमुण्वत् ' इति च वाक्यम् । तच व्याख्यातं तैरेव – “न मयङत्र विकारमादाय प्रयुज्यते. अनारभ्यत्वादात्मन: इत्यादिना इति । बोधायनादीनां ग्रन्थाः, अत्र नामो वा नोििखताः । आकाशाधिकरणे रविकरविकसेितपुण्डरीकनयनस्य इति परं ' कप्यास : शब्दं मनसेि निधाय विशेषणं समर्पितं भगवतो वायुदेवस्य, न तु विपुलतया वेदार्थसंग्रहादाविव क-यास श्रुतिव्र्याख्याता । जन्माद्यधिकरणे – सर्वश्रुतिस्मृतिसूत्रादीनामैककण्ठ्यं पुष्ट्रपपाद्य ब्रह्मणो जगन्निमित्तोपादानत्रे सम्यगुपपादिते । तत्रैव शाङ्करभास्करपक्षावपि समुदा हृतौ----“चिदचितोः परस्य च प्रलयकालेऽपि व्यवहारानर्हसूक्ष्मभेदः, सर्वेदन्तिभि: अभ्युपगतः ; अविद्याकृतभेदस्य, उपाधिकृतभेदम्य च अनादित्वाभ्युपगमात् ” इति । वेदार्थसंग्रहादिषु तु विपुलनममुपापादि तन्मतप्रक्रियादिकं सर्वम् : अत्र तु न तथा । किंच प्रथमसूत्र-याख्याने – “कर्मणां च प्रकृतिविकृतिरूपाणां धर्मार्थ कामरूपपुरुषार्थसाधनतानिश्चयः “ प्रभुत्वादान्विज्यम्' इत्यन्तेन सूत्रकालापेन सङ्कर्ष णेन कृतः ?’ इ िसंकर्षणकाण्डुः प्रस्तुतः, यश्च तदनन्तरन्थेषु नोििखतः। संकर्षणकाण्डस्तु “ अन्ते हरौ तद्दर्शनात्, स विष्णुराह हि स विष्णु राह हि' इति विष्णोः परदेवतावल्यापनेन समासो दृश्यते । तमेव विष्णुशब्दमुपादाय “विष्णवे नमः " इतेि मङ्गलश्रोकोऽत्र कृत । * परमपुरुषप्रसादात् वेदान्तसार उढ़ियते ?)