पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदाचार्यभूतैः, वक्षःस्थले प्रियवल्लभायाः पाक्याः समर्पणेन श्वशुरभूतैः, श्रीपदपुर्यो सुप्रतिष्ठितगोविन्दराजैः, अस्मत्रायैः, श्रीशेषावतारैः, अशेषजनसंत्राणैकनिबद्धकङ्कणैः, श्रीवैष्णवसम्प्रदायपरम्परामध्यमणिनिः श्रीमद्रामानुजमुनिचरणैः समुपन्यस्त इति च, प्रथममयं ग्रन्थः स्वीकृतोऽस्माभि:, अभ्यां श्रीश्रीवैष्णवग्रन्थमालायां महत्यां प्रकाशनाय । नधानां ग्रन्थानां परिचयः, पौर्वापयनिर्णयश्च एषु नवसु रामानुजीयेषु ग्रन्थेषु, लयो ग्रन्थाः, वेदान्तसार - वेदान्तदीप श्रीभाष्यनामकाः, भगवतो बादरायणम्य शारीरकमीमांसासूत्राणां व्याख्यानरूपा विल सन्ति । तेषु वेदान्तदीपः, बेदान्तसारश्च संग्रहात्मकौ, छात्रजनमनोऽमिरामी ; श्रीभाण्यं तु अतीव विपुलात्मकम्, कथकजनमनोऽभिरामम् । वेदान्तसार श्रीभाष्यादीनामनुळेखनेन, वेदान्तर्दपे च त्रिषु प्रदेशेषु श्रीभाष्यस्य समुलेखनेन च युस्फुष्टमिदमवगम्यते – श्रीभाष्यम्. वेदान्तसारादनन्तरं वेदान्तदीपात् पूर्वं च विरचितमिति । वेदान्तसारः --अयं तु न केवलं ब्रह्मसूत्रव्याल्यानग्रन्थानां, किंतु, सर्वेषा मपि श्रीभगवद्रामानुजाचार्यानुगृहीतानां ग्रन्थानां प्रथमः, परमाचार्याणां श्रीमद्यामुन मुनीन्द्राणां स्वैः प्रतिश्रुतस्य प्रथमनियोगम्य परिपालनाय, वाक्य-द्रमिडभाष्य-आगम प्रामाण्य –सिद्विलयादीनां पूर्वतनानां ग्रन्थानां समेषामवलोकनेन प्रसन्नधीर्भि श्रीमद्रामानुजमुनिपुङ्गवैः द्रमिडनाप्यमादशीकृत्य अतिसंक्षिप्ततया, प्रमुग्वसारांशमात्र निबडतथा च विरचितः, श्रीमद्वशिष्टाद्वैतसिद्धान्तानुसारेण सूत्राधिकरणपादाध्यायादि निविलप्रमेयनिरुपणैकतानो मणिोर्पणस्थानीयः, वेदान्तघण्टापथपथिकजनविश्रान्तिदायी कल्पकमहीरुहश्च । अत्र “ अन्तस्तद्धर्मोदेशात् ?’ इति सूत्रवेिबरणघट्टे वाक्य -द्रमेिडभाष्ये समुद्यङ्किते । यथा – 1. श्रतेिन्यायविरोधस्तु तेषां भाष्ये प्रपञ्चित इति नेह प्रतभ्यते । भाष्योदितोऽधि करणार्थः ससूत्रार्थविवरण; सुखग्रहणाय संग्रहेणोन्यस्यते (वे. दी. उपोद्धाते ) खरू नाशादिदोषा भाष्ये प्रपश्चिताः (चे. द. इतरव्यपदेशाधिकरणे)