पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्रामानुज नामधेयवैभवम् न चेद्रामानुजेत्येषा चतुरा चतुरक्षरी । कामवस्थां प्रपद्यन्ते जन्तवो हन्त माझ: ।। इति । तेषामभङ्गुरविभूतेः परमपवित्रस्य 'नारायण' नामधेयवत् मन्त्ररलायमानस्य श्रीनाम धेयस्य वैभवमनर्वाधिकमनुसन्धीयते प्राचीनैराचार्यचरणै । श्रीमलोकाचार्यसगोत्रैः श्रीमद्भिः अनन्तायैः अनुगृह्यतेऽत्र चतुश्चोकी: “गुरू 'रा'थों, 'मा'थों हरिनध्यजीवेन सहितः 'नु' कारार्थो हेतुः सह घटकभावेन 'ज' इति । भुवि प्रादुर्भूतं वदति स हेि रामानुज इति प्रसिद्धो नः पायात् प्रबलतरसंसारभयतः । वेिपक्षप्रध्वंसात् सकलजगदुञ्जीवनगुणात् फणीन्द्रत्वात् , रामत्रितय मनुसृत्याख जननात् । ' सपापानां कार्य करुण'मिति निधारणगुणान्। श्रियं चाप्यायेवाद्वदति स हि रामानुज इतेि । परब्रह्म प्रोक्तं प्रथेितमेिह रामेति तदनु प्रविष्णो जातो यस्तदनुज इतीदं वदतेि वै । तथायात्मानं चेत्यखिलविधया यदुगुणगणं प्रवक्ति श्रीरामानुजपदमसौ नस्सुखयतु । सारो मूलमनो “गुरोशरणत ? “तत्ता यतीन्द्रे स्फुटा ।” तन्निष्ठा वरयोगेिनि स्फुरति सा लभ्या तदङ्घ्रधन्वयात् । स्वाचार्येण तदन्वयोऽस्ति स गुरुः म्वश्रेयसां साधनम् । ज्ञात्वेति स्थितिमान् यतीन्द्रकृपया सिद्धिं परां विन्दति ।” इति, “रामानुजाय मुनये नम उक्तिमात्रं कामतुरोऽपि कुमतिः कलयन्नभीक्ष्णम् । याभामनन्ति यमिनां भगवजनानां तामेव विन्दति गतिं तमसः परस्तात् । रामानुजेतेि यदिदं विदितं जगत्यां नामापि न श्रुतिसभीपमुपैतेि येषाम् । मा मा मदीय इति सदूिरुपेक्षितास्ते कामानुविद्धमनसो निपतन्यथोऽथः ।।