पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जीवपरयाथात्म्यज्ञानपूर्वकवर्णाश्रमधर्मेतिकर्तष्यताकपरमपुरुष शाखान्तरार्थप्रतिपादकेतिहासपुराणादिभिस्सहाधिगत इत्यर्थः । जगतो मिथ्यात्वात् न भवदभिमतोपायेोपेयपराः श्रुत4:; अपि तु निर्विशेषवप्नुज्ञानस्यैव मोक्षोपायत्वप्रति पादनपग इति शद्धां व्युदस्यति अशेषजगद्वितानुशामनेति । जगद्धितानुशास नेति । जगद्वितज्ञापनप्रवृतस्य वेदस्य, पूर्वमेव भ्रान्ते जगति प्रत्यक्षाद्यनवगतभ्रमा न्तरोत्पादकत्वमनुपपन्नमित्यभिप्रायः । हितम् -उपायोपेयात्मकम् । अनुशासनम् विविच्य ज्ञापनम् । * अनुपूर्वशासिर्विविध्य ज्ञापनार्थो दृष्टः' इतेि हि शाब्दाः । अशेषजगच्छब्देन सर्वाधिकारिण उच्यन्ते । हितानुशासनपरो वेदः कथं त्रिवर्गाद्य पुरुषाथ पुरुषार्थ बंधयतीतिं चेत् – तत्तदधिकारिविशेोषापेक्षया पुरुषार्थत्व मस्तीति तद्वधनम् । तर्हि '* श्येनेनाभिचरन् यजेत इति कथं पापममत्यन्ता हितं कर्म विदधतीति चेत् , उच्यते --तच भक्ष्यविशेषैर्वालानिव शठान् वशी कर्तुम् । यद्वा देवब्राह्मणहिंसकादिदष्टनिग्रहार्थकवेन तस्य हितत्वमिति । यद्वा अभिचारादिकर्माराध्यत्वतत्तत्फलप्रदत्वरूपभगवदैश्वर्यविशेषज्ञापनेन तदभिधायेिशास्रस्य हेितपरत्वमिनि । प्रथमक्षाके उपायस्यातिसंक्षेपेण सूचितत्वात् तं विस्तरेण वदन्, प्रतिज्ञात स्वार्थस्य शरीरमाह जीव इत्यादिना । * यद्वा याथात्म्यशब्देन -* तत्त्वमसि ।। इति वाक्ये त्तंपदस्य चेतनद्वयगर्भत्वं सूचितम् । ' “ऐतान्यमिदं सर्वे तत्सत्यम् ' इति परमात्मात्मकत्वं हेि सत्यमुक्तम् । तस्माद्याथात्म्यशब्दस्यायमेवाभिप्राय । ज्ञानपूर्वकशब्देन वाक्यार्थज्ञानमात्रस्यानुपायत्वं सूचितम् । वर्णाश्रमधर्मेतिकर्तव्यता शब्देन कर्मणो विविदिषसाधनत्वं, समुचयवादश्च व्यावर्तितौ । परमपुरुषशब्देन ध्येयस्य हेयप्रत्यनीकत्वकल्याणगुणाकरत्वाभ्यां सर्वविलक्षणत्वं देवतावेिशेषत्वचोक्तम्। अत्र प्रन्थो गालत इव भाति, जीवपरशब्दयोः अर्थस्य अनुक्तत्वात्, याथात्म्य शब्दस्य च प्रथमविकल्पगोचरस्य अर्थस्य अकथनाच । १. स्वर्गाद्यपुरुषर्थम् – पा० २. अधिकारापेक्षया – पा० 1. पू. मी. १.४-५. साम. २६ झ. ३.८. 2,४. छ, उ. ६. (९,१०,१,१२, १३ १४, १५,१६) ३.