पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभ्यवाणं तेरेव च इदमपि यत् तद्ग्रन्थान्त * भगवानयं भाष्यकार संयभीन्द्रवृन्दवृन्दारकपरिषत्पाकशासनः, निर्मन्थ्य स्वमतिमन्थानेन सर्ववेदान्तविशुद्ध परमयोगविलासनामके आन्धभाषामये चारित्रक्षप्रन्थेऽप्येवाभिवण्यैते । यथा - [ः

वेदार्थसंप्रहस्य * वेदान्तसंग्रह ' इत्यपि व्यवहारः आन्ध्रदेशे आसीदिति ज्ञायते , यतोऽत्र, मुमुक्षुजनकल्पके, आचार्यसूक्तिमुक्तावल्यां च तथैव निरदेशि । श्रीशैलपूर्णानां सविधे रामायणार्थश्रवणसमये वेदार्थसंग्रहमुखाः सर्वेऽपि प्रबन्धाः, तेभ्यो निवेदिता , तैश्च आदृत :– इत्यपि अभिवर्धते “श्रीरामायणगदितं वृषाद्रिपूर्णात् श्रुत्वार्थ सुदृढममुं निजप्रबन्धान् ! संश्राव्याकृतकवचोऽर्थसंग्रहादीन् सोऽनैषीत्तनयममुष्य शिष्यतां हिँ ॥ ” इति । तात्पर्यदीपिकायां तु – “श्रीशैलपतेःपुर उपन्यस्तः : इत्यभिवण्यत इति पूर्वमेव न्यवेदि । अत्रायं समन्वयप्रकारः – सरस्वतीसंशयच्छेदनाय कप्यासश्रत्यादीनां परमार्थाः प्रति . पादिता , ततो ग्रन्थे निबद्धाश्च । विजयवृतान्तप्रकारज्ञापनाय श्रीशैलपतिना नियुलै संरसन्निधौ उपन्यस्तः अयं ग्रन्थः: तदनु च श्रीशैलपूर्णेभ्येऽपि विज्ञापितः स्यात 'इतेि ।