सामग्री पर जाएँ

पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[खण्डः २, ३
वेदान्तसारः

अर्थतोऽप्यद्वयानन्दानतीतद्वैतभानतः ।
गुरूनाराध्य वेदान्तसारं वक्ष्ये यथामति ॥ २ ॥

 वेदान्तो नामोपनिषत्प्रमाणं तदुपकारीणि शारीरिकसूत्रा


अवाङ्मनसगोचरमिति । «यतो वाचो निवर्तन्त” इत्यादिश्रुतिभिरविषयत्वप्र तिपादनात् । प्रतिपत्तिविषयत्वं कारणत्वोपलक्षितब्रह्मविषयत्वेनौपचारिकमिति भावः। नन्वेवमपि कारणत्वे मृत्पिण्डवदनित्यस्वशङ्कामपहरन्नाह सदिति । नाशा भावोपलक्षितस्वरूपं ‘‘सदेव सौम्य" इत्यादिश्रुतेः । ननु तथापि जडत्वापत्ति माशङ्कारह चिदिति । स्वप्रकाशचैतन्यस्वरूपमिति यावत् । ननु तथाप्यपुरुषार्थ `त्वात्किमित्याश्रयणीयमित्यत आह आनन्दमिति । परमानन्दस्वरूपमित्यर्थः। ननु ‘‘भक्षितेऽपि लशुने न शान्तो व्याधिः” इति न्यायेन प्रपञ्चस्याधिष्ठा नव्यतिरिक्ततया प्रतीयमानत्वात्कथमद्वैतसिद्धिरित्याशङ्कां तृणीकुर्वन्नाह अख ण्डमिति । सजातीयविजातीयस्वगतभेदशून्यमित्यर्थः । अत्र सच्चिदानन्दमिति प्रयोजनमखण्डमिति विषयः शास्त्रविषययोः प्रतिपाद्यप्रतिपादकभावः सम्बन्ध स्तत्कामोऽधिकारीत्यनुबन्धचतुष्टयमर्थादुक्तं भवति ॥ १ ॥

 किञ्च ‘‘”स्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन’’ इत्यादिश्रुत्या गुरुनमस्कारस्यापि शाखाङ्गत्व प्रतिपादनात्तन्नमस्कारोऽपि पृथक्त्वेन कार्यं इति तन्नतिपूर्वकमभिधेयग्रन्थं प्रतिजानीते अर्थतोऽपीति । अपिशब्देन न केवलं शब्दतो डित्थादिवत् संज्ञामात्रं व्यवस्थितमपित्वर्थतः शब्दतश्चेति । अद्वयानन्दान् गुरूनात् राध्य वेदान्तसारं यथामति वक्ष्य इत्यन्वयः । अद्वयाश्च ते आनन्दाश्चा द्वयानन्दास्तानद्वयानन्दान् । तत्र हेतुमाह अतीतदैतभानत इति । अतीतं गतं द्वैतभानं यतस्तस्मादतीतदैतभानतः । निरस्तसमस्तभेदज्ञानत्वादित्यर्थः। । तान् गुरूनाराध्य कायवाङ्मनोभिर्नमस्कारगोचरीकृत्य । वेदान्तसारं वेदा न्तानामुपनिषद्वाक्यजातानां मध्ये यत्सारं सिद्धान्तरहस्यं यस्मिन् ज्ञाते पुन र्ज्ञातव्यं नावशिष्यते तं वेदान्तसारं यथामति बुद्धिमनतिक्रम्य वक्ष्ये प्रति पादयिष्य इत्यर्थः॥ २ ॥

 इदानीं सर्वस्यापि वस्तुविचारोद्देशपूर्वकत्वात्प्रतिज्ञातं वेदान्तं नामतो निर्दिशति वेदान्तो नामेति । उपनिषद एव प्रमाणमुपनिषत्प्रमाणम् । उपनिषदो यत्र प्रमाणमिति वा । तदुपकारीणि वेदान्तवाक्यसङ्ग्राहकाणि


 १. 'xit. 2. 4. 1. २. C%d. 6. 2. 1. ३. See Magirm i (2nd edn.). ४. S'ue%, v. 23,