पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वेदान्तसारः

सुबोधिनीसहितः ।

अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ।
आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ १ ॥


कृष्णानन्दं गुरुं नत्वा परमानन्दमद्वयम् ।
वक्ष्ये वेदान्तसारस्य टीकां नाम्ना सुबोधिनीम् ॥

 इह खलु कश्चिन्महापुरुषो नित्याध्ययनविध्यधीतसकलवेदराशीनां चि न्मात्राश्रयतद्रूपाद्वयानन्दविषयानाद्यनिर्वचनीयभावरूपाज्ञानविलसितानन्तभ- वानुष्ठितकाम्यनिषिद्धवर्जितनित्यनैमित्तिकप्रायश्चित्तोपासनाकर्मभिः सम्यक्प्रस- न्नेश्वराणामिष्टिकाचूर्णादिसंघर्षितादर्शतलवदतिनिर्मलाशयानां नलिनीदलगतज लबिन्दुवद्धिरण्यगर्भादिस्तम्बपर्यन्तं जीवजातं स्वात्मवन्मृत्योरास्यान्तर्गतं क्षण भङ्गुरं तापत्रयाग्निसन्दह्यमानमनिशमात्मन्यनुपश्यतामतिविवेकिनामत एवैहि कंस्रक्चन्दनादिविषयभोगेभ्य आमुष्मिकहैरण्यगर्भाद्यमृतभोगेभ्यश्च वान्ताशन इवातिनिर्विण्णमानसानां शमादिसाधनसम्पन्नानामापाततोऽधिगताखिलवे- ‘दार्थस्वाद्देहाद्यहङ्कारपर्यन्तं जडपदार्थतद्विलक्षणस्वप्रकाशस्वरूपे प्रत्यगात्मनि ब्रह्मानन्दत्वे संशयापन्नानां तज्जिज्ञासूनाममल्पश्रवणेन मूलाज्ञाननिवृत्तिपरमा नन्दावाप्तिसिद्धये प्रकरणमारभमाणः समाप्तिप्रचयगमनादिफलकशिष्टाचार परिप्राप्तेष्टदेवतानमस्कारलक्षणमङ्गलाचरणस्यावश्यकर्तव्यतां प्रदर्शयँल्लक्षणया- नुबन्धचतुष्टयं निरूपयन् परमात्मानं नमस्कुरुतेऽखण्डमित्यादिना । अभीष्टस्य निःश्रेयसस्य सिद्धये प्राप्त्यर्थम् । आत्मानमाश्रये । एकत्वेन प्रतिपद्य इत्यर्थः । नन्वविपयस्यात्मनः कथं प्रतिपत्तिरित्याशङ्क्याह अखिलाधारमिति । अखिलस्य चराचरात्मकप्रपञ्चस्य विवर्ताधिष्ठानत्वेन कारणत्वाक्रान्तं ब्रह्मैव प्रतिपद्ये न तु शुद्धमित्यर्थः । नन्वेवं च सति प्रतिपत्तिविषयत्वेन दृश्यत्वापत्तिमाशङ्क्याह


  1. See Notes on this verse.


  १. For this simile sea Bhama 1. 1. 4 (p. 95 Bib. Ind.).