दीनि च। अस्य वेदान्तप्रकरणत्वात्तदीयैरेवानुबन्धैस्तद्वत्तासिद्धेर्न ते पृथगालोचनीयाः। तत्रानुबन्धो नामाधिकारिविषयसम्ब न्धप्रयोजनानि ॥ ३ ॥
अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगता खिलवेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जन पुरःसरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनि खिलकल्मषतया नितान्तनिर्मलस्वान्तः साधनचतुष्टयसम्पन्नः
शारीरिकसूत्रादीनि ‘”अथातो ब्रह्मजिज्ञासा’ ’ इत्यादीनि सूत्राणि । आदि- शब्देन भगवद्गीताद्यध्यात्मशास्त्राणि गृह्यन्ते तेषामप्युपनिषच्छब्दवाच्यत्वा- दिति भावः । ननु यद्यप्यवान्तरानुबन्धचतुष्टयमापयेतेति निर्दिष्टं तथापि परमानुबन्धचतुष्टयस्यानिरूपितवादत्र प्रेक्षावतां प्रवृत्तिर्न स्यादित्यत आह अस्य वेदान्तेति । अस्य वेदान्तसारस्येत्यर्थः । ननु वेदान्तशास्त्रस्यापि किमनुबन्धचतुष्टयं येनास्यपि तद्वत्तासिद्धिरित्याशङ्कय मूलशास्त्रस्यानुबन्ध चतुष्टयमाविष्करोति तत्रानुबन्ध इति । अनुबन्धचतुष्टयमेवाह अधिकारी त्यादिना ॥ ३ ॥
यथोद्देशमधिकारिणं लक्षयति अधिकारी त्विति । ““स्वाध्यायोऽध्ये तव्य’ इति वचनाचैवर्णिकानामुपनीतानामध्ययनं नियमेन विधीयते । अध्ययनविधिप्रयुक्तमेवाध्ययनं नाध्यापनविधिप्रयुक्तम् । तथा चाधीतो वेदो वेदाङ्गानि च शिक्षाकल्पव्याकरणछन्दोज्योतिर्निरुक्ताख्यानि यतस्तेना पाततोऽधिगताखिलवेदार्थः । अत्र सर्ववेदार्थरहस्ये ज्ञाते सत्युत्तरग्रन्थ वैयर्थपरिहाराय आपातत इत्युक्तम् । नन्वनधीतवेदानामपि विदुरादीनां तत्त्वज्ञानोत्पत्तिदर्शनादध्ययनतत्प्रयुक्तकर्मानुष्ठानवैयर्थमाशङ्कयोत्तरमाह जन्मा न्तर इति । तेषामाधुनिकाध्ययनाद्यभावेऽपि जन्मान्तरीयाध्ययनादिना चित्तपरिपाकवतामस्मिन् जन्मनि विनाप्यध्ययनादिना ज्ञानोत्पत्तौ बाध काभावान्नाध्ययनादिवैयर्थ्यमिति भावः । काम्येति । काम्यस्यापि कर्मणो धर्मसाधनत्वेऽपि यातायातसम्पादकत्वेन बन्धकत्वान्निषिद्धवत्तद्वर्जनपुरः- सरमियुक्तम् । तथा च नित्यादिकर्मानुष्ठानेन निर्गतनिखिलकल्मषतया निःशेषनिरस्तसकलकल्मषत्वेन । अत्र निखिलपदं काम्यनिषिद्धजनितसु
१. Brchastr•o 1. 1. 1. २. T¢i%, Arany%a 2. 15. .