कानन्दरसं स्वात्मत्वेन यः साक्षात्कृतवान् ब्रह्मवित् सः जीवन्मुक्तः सर्वदा स्वस्य सर्वात्मतां साप्ता गीतिस्वरूपेण मंत्रेण यद्वा “सर्वेण समस्तेन साम” इति सर्व समत्वप्रतिपादकमंत्रेण गायति, तद्नानप्रकारमाह । अहमन्नं यद्यद्यते व्रीहियवादिकं तदन्नं तदस्मि मिथ्यांशस्य नामरूपादिकस्य विवेचनेन परमार्थभूतं वस्त्वहमेव । इति सर्वात्मकवानुभवः सूच्यते । तथा अन्नादः योऽन्नमति सोऽप्यहमेव चेति सामश्रुतिरधीयते । हि निश्चयार्थे । “इमांल्लोकान् कामान्नो कामरूप्यनुसंचरन् एतत्सामगायन्नास्ते हावु हावु हवु । अहमन्नमहमन्नमहमन्नं । अहमन्नादोऽहमन्ना- दोऽइमन्नादः” इति (तै. ३. ३. १०.) श्रुतिः ॥ ३७॥
कृतकृत्यताविचारः ।
अथ परिशिष्टं प्रकारद्वयमवतारयति, दुःखेति ।
दुःखाभावश्च कामाप्तिरुभे ह्येवं निरूपिते । |
स्पष्टोऽर्थः ॥३८॥
उभे तृप्तिदीपे निरूपिते । तन्निरूपणमत्रानुसंधीयतामित्याह, उभय- मिति ।
उभयं तृप्तिद्वीपे हि सम्यगस्माभिरीरितम् । |
स्पष्टोऽर्थः । बुद्धिविशुद्धये बुद्धेनैर्मल्याय ॥३९॥
ऐहिकामुष्मिकव्रातसिद्ध्यै मुक्तेश्च सिद्धये । |