अकामहतत्वं व्याख्यातं भवति । तेन निष्कामनया ब्रह्मार्पणपूर्वकमाचरितो यो ब्रह्म कर्मसमाधिः स एव गन्तव्यं ब्रह्म गमयतीति भावः ।। ३४॥
उक्तमर्थं सर्वकामाप्तिरूपमुपसंहरति, सर्वेति ।
सर्वकामाप्तिरेषोक्ता यद्वा साक्षिचिदात्मना । |
एषा सर्वकामाप्तिः विवृतैकप्रकारिका उक्ता । प्रकारांतरमप्याह,यद्रेति । यद्वा साक्षिचिदात्मना सर्वव्यवहारस्य साक्षिभूतेन चित्स्वरूपेण स्वदेहवत् सर्वदेहे- ष्वपि भोगानवेक्षते यथा देहेऽस्मिन्नुपाधिपरिहारेणानन्दरूपत्वमिव देहतरेष्वप्युपाध्य परामर्शादानन्दरूपतेति भावः ॥ ३५ ॥
ननूक्तरूपा सर्वकामाप्तिरज्ञस्याप्यस्ति ततश्च तृप्तिरपि स्यादित्याशंक्याह, अज्ञस्येति ।
अज्ञस्याप्येतदस्येव न तु तृप्तिरबोधतः। |
एतत् उक्तरूपा सर्वकामाप्तिः अज्ञस्यापि यद्यप्यस्त्येव । तथापि अबोधतः सर्वबुद्धिसाक्षी अहमिति ज्ञानाभावात् तृप्तिस्तु नास्ति । अत्र “यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेती"ति (ते. २-१) श्रृत्यर्थपठनेन कारणं वक्ति । य इति । यः पुरुषो ‘निहितं गुहायां परमे व्योमन्” इति वर्णितं प्रत्यगात्माभिन्नपरमात्मानं वेद साक्षात्करोति सः ब्रह्म वित् सर्वान् कामान् अश्नुते युगपदाप्नोतीति तैतिरीयको श्रुतिरब्रवीत् ॥ ३६ ॥
सर्वकामाप्तित्वे प्रकारान्तरमाह, यद्रेति ।
यद्वा सर्वात्मतां स्वस्य साम्ना गायति सर्वदा । |
यद्वा “स यश्चायं पुरुषे यश्चासावादित्ये स एक” इत्येवं विदित्वा अन्न मयादिविज्ञानमयां तान् कोशान् मिथ्यात्वधिया विविच्य ब्रह्मपुच्छं प्रतिष्ठेत्यखंडै.