पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६२
[ब्रह्मनंदे विद्यानंद
पञ्चदशी

 अस्मिन् कल्पे अश्वमेधादि अश्वः प्रधानतया मेध्यते हिंस्यतेऽनेत्यश्वमेघः । एकविंशतियूपसप्तदशपञ्चविशिष्टो यज्ञविशेषः । तदादि शास्त्रचोदितं कर्म कृत्वा महत्पदं स्वर्गादिलोकमवाप्य आजानदेवैः सृष्ट्यादौ देवयोनौ जातैः याः विद्या कमौत्कृष्ट्येन पूज्या भवन्ति ताः कर्मदेवताः। कर्मणा प्रशस्ता देवता भवन्ति॥३१॥

 आजानदेवानां मध्ये मुख्यानाह, यमेति ।।

यमाग्निमुख्या देवाः स्युर्ज्ञाताविंद्रदृहस्पती ।
प्रजापतिर्विराट् प्रोक्तो ब्रह्म सूत्रात्मनामकः ॥ ३२ ॥

 आजानदेवेषु यमाग्निमुख्या देवाः स्युः । तत्र इंद्बृहस्पती "स एतमेव पुरुषं ब्रह्म ततमपश्यदिदमदर्शमिति । तस्मादिंद्रो नामेदंद्रो ह वै नाम तमिदंद्र संतमिंद्र इत्याक्षते” (ऐत, ३.१४.) इति व्युपत्तेरिंद्रश्च बृहत्या वाचः पतिः देवपुरो हितः च ज्ञातौ प्रसिद्धौ । प्रजापतिः विराडिति प्रोक्तः ब्रह्मदेवः सूत्रात्मनामकः समष्टिशरीरोपाधिको हिरण्यगर्भो भवति ॥ ३२॥

 सार्वभौमादिसूत्रान्तानां श्रोत्रियानन्दान्न्यूनतामाह,सार्वेति ।

सार्वभौमादिसूत्रान्ता उत्तरोत्तरकामिनः।
अवाङ्मनसगम्योऽयमात्मानन्दस्ततः परः ॥ ३३ ॥

 सार्वभौमादिसूत्रान्ताः उत्तरोत्तरकामिनः उतरात्पदादुत्तरस्य पदस्य कामिनो भवन्ति । यतः अयमात्मानन्दोऽवाङ्मनसगम्यः मनसा चिंतितुं वाचा वर्णितं वा अशक्यः, ततः परः सर्वोत्कृष्ट इत्यर्थः ॥ ३३॥

 सार्वभौमादिसूत्रान्तानामानन्दः श्रोत्रिये श्रूयन्ते तस्य निस्पृहत्वादि त्याह, तैरिति ।

तैस्तैः काम्येषु सर्वेषु सुखेषु श्रोत्रियो यतः ।
निःस्पृहस्तेन सर्वेषामानन्दास्सन्ति तस्य ते ॥ ३४ ॥

 तैस्तैः सम्राडादिभिः काम्येषु अभिलषणीयेषु सर्वेषु सुखेषु यतः श्रोत्रियः निःस्पृहः ततः सर्वेषां ते आनन्दास्तस्य सन्ति । अनेन श्रोत्रियस्याकामहतस्येत्यत्र