सामग्री पर जाएँ

पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१४॥ ]
५६५
कल्याणपीयूषव्याख्यासमेता

परमानन्दपूर्णोऽहं संसरामि किमिच्छया ॥ ४२ ॥

अनुतिष्ठन्तु कर्माणि परलोकयियासवः ।
सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथम् ॥ ४३ ॥

व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा ।
येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः ॥ ४४ ॥

निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च ।
द्रष्टरश्चेत्कल्पयन्ति किं मे स्यादन्यकल्पनात् ॥ ४५ ॥

गुंजापुंजादि दर्वेत नान्यारोपितवह्निना ।
नान्यारोपितसंसारधर्मानेवमहं भजे ॥ ४६ ॥

शृण्वन्त्वज्ञाततत्वास्ते जानन् कस्माच्छृणोम्यहम् ।
मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः ॥ ४७ ॥

विपर्यस्तो निधिध्यासेकि ध्यानमविपर्यये ।
देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम् ॥ ४८ ॥

अहं मनुष्य इत्यादिव्यवहारो विनाऽप्यनुम् ।
विपर्यासं चिराभ्यस्तवासनतोऽवकल्पते ॥ ४९ ॥

आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते ।
कर्माक्षये त्वसौ नैव शस्येद्यानसहस्रतः ॥ ५० ॥

विंरलत्वं व्यवहृतेरिष्टं चेद्य नमस्तु ते ।
आबाधिकां व्यवहृतिं पश्यन् ध्यायाम्यहं कुतः ॥ ५१ ॥

विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम ।