ज्ञानिनः कर्मफलप्राप्तिरूपभोगांगीकारे तदनुकूलं जन्मापि स्यादित्यत आह, नेति । अन्यवत् अज्ञानवत् कर्मभिर्जन्म न तेषां ज्ञानेन दग्धत्वात् ॥१९॥
ननु कमेण ज्ञानिनो जन्माजनकत्वे बहुजन्मस्वनुभवयोग्या भोगाः कथ मेकस्मिन्नेव जन्मन्युपपद्यन्त इत्यत आह,वर्तन्त इति । ,
वर्तन्ते श्रोत्रिये भोगा युगपत्क्रमवर्जिताः ॥ २० ॥ |
स्पष्टोऽर्थः । अन्यैर्जीवैर्यानि यानि सुखान्यनुभूयन्ते तानि सर्वाणि सर्वात्म भूतत्वात् ज्ञान्यनुभवतीति भावः ॥२०॥
तैत्तिरीयोदाहृतां श्रोत्रियानन्दकृष्टतां द्वाभ्यामाह,युवेति ।
युवा रूपे च विद्यावान् नीरोगी दृढचित्तवान् ।। |
सुलभा पदयोजना । “युवा स्यात् साधु युवाध्यायिकः” (. २-८, वृ. ४. ३. ३३.) इत्याद्यनुवाकसमवलोक्यतान् । अनेन ज्ञानिनः कामो वा तत्प्राप्तिर्वा आरोपितव्या”। “ये तूच्छिन्नदोषैर्मृदितकषायैर्मानसाः सत्याः कामा अनृतापिधाना अनुभूयन्ते विद्याभिव्यङ्ग्यत्वात् एव मुक्तेन सर्वात्मभूतेन संबध्यन्त इत्यात्मज्ञानस्तुतये निर्दिश्यन्ते”। आत्मज्ञानतृप्तेरितरकामनानामल्पीयस्त्वकथने एव श्रुतेस्तात्पर्यमिति भावः॥ २१, २२ ॥
सम्राजः सर्वभोगसंभवेन तत्तत्कामनानिवृत्तौ तृप्तिस्सिध्यतु ज्ञानिनस्तद लाभेन कथं तादृशी तृप्तिरित्याशंक्याह, मत्येति ।
मर्त्यभोगे द्वयोर्नास्ति कामस्तृप्तिरतः समा । |
द्वयोः सम्राड्ज्ञानिनोः राज्ञोऽनुभमान्निष्कामत । ज्ञानिनो भोगानां