पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६०
[ब्रह्मनंदे विद्यानंद
पञ्चदशी

मिथ्यात्वज्ञानान्निष्कामता। एवं च कामस्यैव तृप्तिविघटकत्वातदभावस्योभयत्रापि सत्त्वात्तृप्तिसाम्यमिति भावः ॥ २३॥

 विवेकत इत्युक्तमर्थं विवृणोति, श्रोत्रियत्वादिति ।

श्रोत्रियत्वाद्वेदशास्त्रैः भोगदोषानवेक्षते ।
राजा वृहद्रथो दोषांस्तान् गाथाभिरुदाहरत् ॥ २४ ॥

 स्पष्टोऽर्थः । बृहद्रथवृतान्तो मैत्रायण्युपनिषदि लभ्यते ॥ २४ ॥

 तान् दोषान् प्रदर्शयति, देहेति ।

देहदोषांश्चित्तदोषान् भोग्यदोषाननेकशः।
शुना वान्ते पायसे नो कामस्तद्वद्विवेकिनः ॥ २५ ।।

 अनेकश उदाहरदिति पूर्वेणान्वयः । शुना वान्ते उद्गीर्णे स्पष्टमन्यत् । कामेषु जुगुष्सोत्पादनार्थमिदमुदाहरणम् ॥२५॥

 सार्वभौमाच्छोत्रियस्याधिक्यप्रदर्शनाय तद्दोषानाह,निष्कामित्व इति ।

निष्कामत्वे समेऽप्यत्र राज्ञः साधनसञ्चये।
दुःखमासीद्भाविनाशादतिभीरनुवर्तते ॥ २६ ॥

 मुगमा पदयोजना। राज्ञो भोग्यजातस्य संपादने दुःखम्, उत्तरकाले सार्वभौमत्वस्य नाशभीतिश्चेत्यर्थः ॥ २६॥

 न तथा श्रोत्रियस्येत्याह, नोभयमिति ।

नोभयं श्रोत्रियस्यातस्तदानन्दोऽधिकोऽन्यतः।
गन्धर्वानन्द आशास्ति राज्ञो नास्ति विवेकिनः ॥२७॥

 उभयं साधनसञ्चयभाविनाशरूपं । सम्राजः आशान्तरमप्यस्तीत्याह गन्ध र्वानन्द इति न तथा विवेकिनः ॥२७॥

 तत्रोपपत्तिविवक्षया तस्य वैविध्यं द्वाभ्यां प्रदर्शयति, अस्मिन्निति