पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५८
[ब्रह्मनंदे विद्यानंद
पञ्चदशी

 अहं कृतो भावः अहं कर्तेत्यभिमानः । न लिप्यते कर्मफलैरिति यावत् । स्पष्टमन्यत् ।। १६ ॥

 न मातृवधेन, न पितृवधेन, न स्तेयेन, न भूणहत्यया, नास्य पापं च न न चुक्रुषो मुखान्नील” (कौषी. ३. १.) मिति श्रुतिवाक्यस्यार्थतःपठनेन तस्यासंबंधं दर्शयति, मातेति ।

मातापित्रोर्वधस्तेयं भूणहत्यान्यदीदृशम् ।
न मुक्तिं नाशयेत्पापं मुखकान्तिर्न नश्यति ॥ १७ ॥

 स्तेये चौर्य । भ्रूणहत्या भ्रूणस्य गर्भस्य शिशोर्वा हत्था स्पष्टमन्यत् । निरहंकारनिस्सगोत्कर्षमात्रपरैवेयं वर्णना ॥ १७॥

ज्ञानिनःकामावाप्तिविचारः ।

 उक्तचातुर्विध्यमध्येऽथ द्वितीयं प्रकारं कामावाप्तिरूपमाहदुःखेति ।

दुःखाभाववदेवास्य सर्वकामाप्तिरीरिता ।
सर्वान् कामानसावाप्त्वा ह्यमृतोऽभवदित्यतः ॥ १८ ॥

 अस्य ज्ञानिनो दुःखाभाववदिव सर्वकामाप्तिः “सर्वान् कामानाप्वा ऽमृतोऽभवदित्यतः (त. ५-३) इत्यर्थिकया श्रुत्या ईरिता कथिता ॥ १८॥

 "जक्षन् क्रीडन् रममाणः स्त्रीभिर्यानैर्वे” (छां. ८. १२.३.) त्यादि श्रुत्यर्थपठनेन कामावाप्तिं विवृणोति, जक्षन्निति ।

जक्षन् क्रीडन् रतिं प्राप्तः स्त्रीभिर्यानैस्तथेतरैः ।
शरीरं न स्मरेत् प्राणः कर्मणा जीवयेदमुम् ॥ १९ ॥

 जक्षन् भुजानः स्पष्टमन्यत् । उपभोगेन प्रारब्धकर्मनाशपर्यन्तं ज्ञानी प्रार्णैन वियुज्यत इत्यर्थः ॥१९॥

 ज्ञानिनस्सर्वकामावाप्तिप्रतिपादिकां “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति (तै. २-१) श्रुतिमर्थतः पठति, सर्वानिति ।

सर्वान् कामान् सहाप्नोति नान्यवज्जन्मकर्मभिः ॥ १९॥