ननु ज्ञानिनः प्रारब्धकर्मचिन्तारूपसन्तापाभावेऽप्यागामिविषयचिन्ता भवत्यवेत्याशंक्य तद्यथा पुष्करपळशे” (छ. ४. १४३.) इति श्रुत्यर्थपठ• नेन समाधत्ते यथेति ।
यथा पुष्करपर्णेऽस्मिन्नपामश्लेषणं तथा । |
यथा अस्मिन् पुष्करपर्णं पद्मपत्रे अपां जलानां अश्लेषणं असंस्पृष्टता तथा वेदनांदूर्ध्र्वं ज्ञानोत्पत्तेरनन्तरं बुधे आगामिकर्मणोऽपि अश्लेषणं भवति ॥१३॥
एतदर्थे ‘‘तद्यथैषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वेपाप्मानः प्रदू- यन्ते” (छां•५, २४. ३.) इति श्रुतिबलेन ज्ञानिनस्संचितकर्मविषयचिन्ताऽपि न विद्यत इत्याह, इषीकेति ।
इषीकातृणतूलस्य वह्निदाहः क्षणाद्यथा। |
इषीकातुणतुलस्य इषीकानूण इति तृणविशेषः, तस्य तूलं सूक्ष्मावयवः कार्पाससदृशः, तस्य यथा वह्निदाहः क्षणाद्भवति तथा अस्य संचितकर्म वेदनात् ज्ञानात् दग्धं भवति ॥ १४॥
एतस्मिन्नर्थे गीतावाक्य (गी.४. ३७) मप्युदाहरति, यथेति ।
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । |
सुलभा पदयोजना । एषांसि शुष्केधनानि । भस्मसात्कुरुते फलकारणत्वस्य विनाशे हेतुरित्यर्थः । अर्थादारब्धं यच्छरीरं तदुपभोगेनैव शाम्यति । यदन्यदना रब्धं संचितमनेकजन्मसमुपार्जितमुक्तरजन्भनिभितं तत्सर्वं ज्ञानाग्निना निधींजव त्क्रियत इति संपन्नम् ॥ १५॥
निरस्ताहंकर्तृत्वभावस्य कर्मसंबंधो नास्तीत्याह, यस्येति ।
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । |