तत्र विषयीभूतः कर्ता तद्विषयः ॥ ७
ननु रूपं रस इत्येवमुल्लेखिनीनामपि वृत्तीनां सद्भावेन बाह्यवृत्तिस्वरूपविवरणं न्यूनमित्याशंक्य तेषां तदन्तर्भावं विशदयन् तद्वृत्तीनामसांकर्यप्रयो जकप्रदर्शनव्याजेन मनसः पृथगिन्द्रियत्वाङ्गीकारावश्यकतां दर्शयति, इदमिति ।
इदमो ये विशेषाः स्युर्गन्धरूपरसादयः। |
इदम इदमर्थस्य सामान्यस्य गन्धरूपरसादयो ये विशेषा धर्माः स्युस्तान् घ्राणादीन्द्रियपञ्चकमसांकर्येण प्रत्येकं प्रत्येकं भिन्द्यात् विभजेत । एवं चासांकर्य सिद्धये मनसः पृथक् चक्षुरादीन्यवश्यमभ्युपेयानीति भावः ।। ८॥
परमात्मस्वरूपनिरूपणम् ।
परमात्मस्वरूपं निरूपयति, कर्तारमिति ।
कर्तारं च क्रियां तद्वद्व्यावृत्तविषयानपि । |
अहंकाराभिमानेन कर्तारं व्यवहर्तारं, अन्तर्बहिर्वृत्तिरूपां क्रियां च तद्वद्व्यावृत्तविषयानपि व्यावृत्ता असांकर्येण घ्राणादीन्द्रियपंचकस्य विषयभूता रूपरस गन्धादयस्तानेकयत्नेन युगपदेव यः स्फोरयेत्प्रकाशयेदसौ चिद्वपुश्चिदेव वपुस्स्वरूपं यस्य सोऽत्र वेदान्तशास्त्रे साक्षीतीर्यते । “तस्य भासा सर्वमिदं विभाती"ति (कठ.२. ५.१५) श्रुतेस्साक्षिणश्चिद्रूपत्वम् सर्वभासकत्वेनावगम्यते ॥ ९॥
कर्तृक्रियाविषयाणामेकयत्नेन स्फूर्तेिं दृष्टान्तमुखेन विवृणोति, ईक्ष इति ।
ईक्षे शृणोमि जिघ्रामि खादयामि स्पृशाम्यहम् । |
अहं मनसा चक्षुरिन्द्रियद्वारा घटादिविषयानीक्षे पश्यामि, तथैव श्रोत्राभ्यां शब्दं शृणोमि, नासिकया जिघ्रामि, रसनया रसंमास्वादयामि, त्वचा स्पृशामीति सर्वं ज्ञातृज्ञेयज्ञानतत्सहकारीणि स साक्षी भासयते । अत्र दृष्टान्तमाह, नृत्येति ।