अविचारकृतो बन्धो विचारेण निवर्तते । |
बन्धः संसाररूपः, अविचारकृतः विचारजन्यतत्त्वज्ञानाभावोऽविचारस्तेन कृतस्तन्मूलक इत्यर्थः । अतस्तत्त्वस्य विचारेण स निवर्तते । तस्माज्जीवपरात्मानौ सर्वदा साक्षात्कारपर्यन्तं विचारयेत् । बंधस्य तत्त्वज्ञानाभावमूलकत्वेन मूलविनाशमन्तरा बन्धनिवृत्तेरयोगेन विचारजन्यं ज्ञानमेव बन्धनिवर्तकमिति सिध्यति । बन्धनाशाधीनत्वान्मोक्षस्य विचारमन्तरेण नैव मोक्षसिद्धिः। “कर्मणैवही”ति स्मृतौ संसिद्धिशब्दश्वित्तशुद्धिपरो न तु मोक्षपर इति भावः ॥ ५॥
जीवस्वरूपनिरूपणम् ।
विचारोपयोगित्वेन प्रथमतो जीवस्वरूपं निरूपयत्यहमिति ।
अहमित्यभिमन्ता यः कर्ताऽसौ तस्य साधनम् । |
यश्चिदाभासो देहादौ तादात्म्याध्यासेनाहमित्यभिमन्ता “अहं ब्राह्मणः अहं यज", इत्याकारकाभिमानं करोति सोऽसौ कर्ता कर्तृत्वादिधर्मविशिष्टो जीवो भवति । कर्तुः क्रियाकरणसाकांक्षत्वात्क्रमेण ते दर्शयति, मन इति । मनस्तस्य करणं साधनम् । क्रमोत्थिते प्रथमतोऽन्तर्वृत्तिः पश्चाद्ब्रहिर्वृत्तिरित्येवं क्रमादुत्थिते अन्तर्बहिर्वृत्ती तस्य क्रिये ॥६ ॥
निरुक्तान्तर्बहिर्वृत्त्योः स्वरूपविषयौ विशदयति, अन्तरिति ।
अन्तर्मुखाहमित्येषा वृत्तिः कर्तारमुल्लिखेत् । |
अहं ब्रह्मेत्याकारकैषाऽन्तर्मुखावृत्ति: अन्तःकरणवृत्तिश्चिदाभासं कर्तारमुल्लिखेन् विषयीकुर्यात् । बहिर्वृत्तेः स्वरूपं विषयं च दर्शयति, इदमिति । सूक्ष्मदेहाद्बहिर्मुखेषा बुद्धिवृत्तिरिदं बाह्यम् देहाद्भहिर्भवं वस्तूल्लिखेत् । इदमित्याकारका वृत्तिर्बहिर्वृत्ति:। तत्रोल्लिख्यमान इदमर्थो विषयः । एवमहमित्युल्लेखिनीवृत्तिरन्तर्वृत्ति:।