ननु जीवरूपेण सर्वशरीरेषु प्रविशतः परमात्मन एकस्यैव कथं देवमानवतिर्यगादिभेदो घटत इत्याशंक्याह, विष्ण्विति ।
विष्ण्वाद्युत्तमदेहेषु प्रविष्टो देवता भवेत् । |
स्पष्टोऽर्थः । शरीरोपाधितोऽयं भेद इति भावः ॥ २॥
एवं परमात्मनि जगत आरोपणं प्रदर्श्य तदपवादमुपपादयति, अनेकेति।
अनेकजन्मभजनात्स विचारं चिकीर्षति । |
अनेकजन्मभजनादनेकेषु मर्त्यादिदेहेष्वाचरितानां कर्मणां परे ब्रह्मणि समर्पणरूपाद्भजनात्सेवातः“भजसेवाया" मियुक्तेः, स्वविचारं स्वस्य रूपस्य श्रवणादिविचारं जीवः चिकीर्षति कर्तुमिच्छति । एवं विचारेण विचारजन्यज्ञानेन मायायां विनष्टायामावरणविच्छेदे सति स्वयमद्वयानन्दपूर्णः परमात्मैव शिष्यते॥३॥
ननु ज्ञानान्मोक्ष इति श्रूयते । ज्ञानान्मायाविनाशे स्वरूपेणावस्थितिरिति तद्वैलक्षण्येनात्र कथमुच्यत इत्याशंक्य स्वरूपावस्थितिरेव मुक्तिरित्याह, अद्वयेति ।
अद्वयानंदरूपस्य सद्वयत्वं च दुःखिता। |
अद्वयानंदरूपस्य परमात्मनः सद्वयत्वं द्वितीयेन साहित्यं, दुःखिता दुःखेन संस्पृष्टता च, यत्तदेव संसाररूपो बन्धः इति प्रोक्तः । स्वरूपेण स्वस्य रूपेण स्थितिरेव मुक्तिरिति चेर्यते । बंघस्य मायापरिकल्पितत्वान्मायानाशे बन्धनाशोऽपि स्यात् । बंधनाशे या स्वस्वरूपावस्थितिस्सैव मोक्ष इति भावः ॥४॥
ननु "कर्मणैव हि संसिद्धिमास्थिता जनकादय" इति मोक्षसाधनत्वेन कर्मणोऽप्यभ्युपगमान्मुमुक्षुभिः किमर्थं विचारः कर्तव्य इत्याशंक्याह, अविचारेति ।