यथा नृत्यशालास्थदीपवत् नृत्यशालायां रंगभूमौ प्रकाशमानो दीपस्तद्वत् ॥१०॥
दृष्टान्तमेव विवृणोति, नृत्येति ।
नृत्यशालास्थितो दीपः प्रभुं सभ्यांश्च नर्तकीम् । |
नृत्यशालास्थितो दीपः नाटकप्रवर्तकं प्रभुं सर्वशक्तिमन्तं राजानं, तदाश्रितान् सभ्यान् , नर्तकीं चाविशेषेण तुल्यमेव दीपयेत् प्रकाशयेत् । तदभावेऽपि प्रभ्वादेरभावेऽपि दीप्यते स्वयं प्रकाशते । सूर्यकान्तिः प्रकाश्यप्रकाशनायैव न प्रकाशते; किंतु प्रकाश्याभावेऽपि प्रकाशते ॥११॥
दृष्टान्तार्थे दार्ष्टान्तिके समन्वेति, अहमिति ।
अहंकारं धियं साक्षी विषयानपि भासयेत् । |
साक्षी अहंकारमहमित्यभिमानप्रेरितं जीवं तस्य साधनीभूतां धियं रूपरस- गन्धादीन्विषयानप्येकयत्नेन युगपदेव भासयेत्प्रकाशयेत् । सुषुप्तिकाले सर्वोपरम- समयेऽहंकाराद्यभावेऽपि स्वयं पूर्ववज्जाग्रत्स्वप्नयोरिव साक्षी स्वयं भात्येव ॥ १२॥
ननु सत्त्वगुणप्रधानाया बुद्धेस्सर्ववस्त्ववभासनसमर्थत्वात्तयैव भाने सिद्धे साक्षिभास्यत्वकल्पना गौरवग्रस्तैव स्यादित्याशंक्य साक्ष्यनवभास्यमाना बुद्धिः स्वयं विषयग्रहणासमर्थेत्याह, निरन्तरमिति ।
निरन्तरं भासमाने कूटस्थे ज्ञप्तिरूपतः । |
कूटस्थे स्वयंप्रकाशे निरन्तरं भासमांने सतीयं स्वयं जडरूपा बुद्धिस्तद्भासा कूटस्थस्य तेजसा भास्यमानाऽनेकधा नृत्यति विविधविषयान्विषयीकरोति ॥ १३॥
जगतो नाटकत्वरूपकमवयवरूपकपूर्वकं समर्थयति, अहंकार इति ।
अहंकारः प्रभुः सभ्या विषया नर्तकी मतिः । |