तदा तदेकदेशस्य जगत एकांशभूतस्य जीवाभासस्य का कृथा ? सोऽप्यारोपित एवेति प्रत्येकं किमु वक्तव्यम् ?॥ ५० ॥
ननु जगदधिष्ठानभूतस्य चैतन्यस्यैकत्वे तत्त्वंपदार्थयोरभेदात्तयोः सह प्रयोगासंभव इत्याशंक्याह, जगदिति ।
जगत्तदेकदेशाख्यसमारोप्यस्य भेदतः । |
जगत्तकदेशाख्यसमारोप्यस्य जगदिति तदेकदेश इति चाख्या यस्य तस्य समारोप्यरूपस्य भेदतो भेदमादाय तत्त्वंपदार्थौ कूटस्थजीवौ भिन्नौ स्तः । वस्तुतः चितेरधिष्ठानभूताया एकतैव । विशेष्यांशैक्वयेऽपि विशेषणीभूतारोप्यांशमादाय तयोर्भिन्नार्थत्वात्रीलो घट इतिवन्न पर्यायतेति भावः ॥५१ ॥
ननु जीवस्य जगदन्तःपातित्वोक्तिसंगता । तस्यारोप्यधर्मवत्त्वानुप- लम्भेनारोपितत्वादित्याशंक्याह, कर्तृत्वेति ।
कर्तृत्वादीन् बुद्धिधर्मान् स्फूर्त्याख्यां चात्मरूपताम्। |
आभासश्चिदाभासः कर्तृत्वादीन् कर्तृत्वभोक्तृत्वप्रमातृत्वादिबुद्धिधर्मान् अनृतानारोप्यमाणान् स्फूर्त्याख्यां प्रकाशस्वरूपामात्मरूपतां सत्यभूतां च दधत्पुरतो विस्पष्टं विभाति । अत आभासो भ्रमः कल्पितो भवेत् । आरोप्यमाणधर्मवत्त्वादारोपित एव । अत आरोपितजगदन्तःपातित्वं जीवस्य नासंगतमिति भावः ।५२॥
भ्रमस्वरूपनिवारणाविचारः ।
बुद्ध्याभासादीनां विभागनिर्णयासक्तिरेवास्य भ्रमस्य कारणमित्याह, केति।
का बुद्धिः कोऽयमाभासः को वाऽऽत्माऽत्र जगत्कथम् । |
बुद्धिः का ? किं लक्षणा, कोऽयमाभासः ? चिदाभासः किंस्वरूपः, आत्मा कः ? अत्रास्मिन्नात्मनि जगत्कथमारोप्यते ? इत्यनिर्णयतः निश्चयाभावात्