पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६२
[कूटस्थदीप
पञ्चदशी

तस्य वक्तुम् विवरणे तथोक्तमितरत्र च ॥ १७ ॥

 शोधता बुद्ध्या विवेचितस्त्वंपदार्थः तत्त्वमसीत्यत्र त्वंपदशोधितो यः कूटस्थो विद्यते तस्य ब्रह्मरूपतां वक्तुं विवरणे इतरत्र च तथा बाधासामानाधिकरण्यनिरासपूर्वकम् मुख्यसामानाधिकरण्यमुक्तम् ।। ४७ ॥

कूटस्थब्रह्मशब्दार्थविचारः ।

 कूटस्थस्य ब्रह्मौक्यबुबोधयिषया कूटस्थशब्देन विवक्षितमर्थं दर्शयति, देहेति ।

देहेन्द्रियादियुक्तस्य जीवाभासभ्रमस्य या ।
अधिष्ठानचितिः सैषा कूटस्थोऽत्र विवक्षिता ॥ ४८ ॥

 देहेन्द्रियादियुक्तस्य स्थूलसूक्ष्मशरीरयुक्तस्य जीवाभासभ्रमस्य चिदाभास इत्ययथार्थज्ञानस्य याऽधिष्ठानचितिः चैतन्यं सैषाऽत्र अहंब्रह्मास्मीति स्थले कूटस्थ इति विवक्षिता ॥ ४८ ॥

 तत्र ब्रह्मशब्दस्याभिप्रेतमर्थमाह, जगदिति ।

जगद्भ्रमस्य सर्वस्य यदधिष्ठानमीरितम् ।
त्रय्यन्तेषु तदत्र स्याद्ब्रह्मशब्दविवक्षितम् ॥ १९ ॥

 सर्वस्य जगद्भ्रमस्य सर्वं जगत्सत्यमिति मिथ्याज्ञानस्य यदधिष्ठानमाधारः इति त्रय्यन्तेषु ऋग्यजुस्सामात्मकवेदराशेरन्तेषु निश्चितार्थेषूपनिषत्सु ईरितं तदधिष्टानमत्रास्मिन् वाक्ये ब्रह्मशब्देन विवक्षितम् ॥ ४९॥

ब्रह्मणि जीवस्यारोपितत्वविचारः ।

 एवं परे ब्रह्मणि कृत्स्नस्य जगतः आरोपितत्वे तदन्तःपातिनो जीवस्या प्यारोपितत्वं कैमुतिकसिद्धमित्याह, एतस्मिन्निति ।

एतस्मिन्नेव चैतन्ये जगदारोप्यते यदा ।
तदा तदेकदेशस्य जीवभासस्य का कथा ॥ ५० ॥

 एतस्मिन्नेव कूटस्थाभिन्ने चैतन्ये परे ब्रह्मणि यदा अंशेषं जगदारोप्यते