पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३१९
कल्याणपीयूषव्याख्यासमेता

 वृथा कथा व्यर्था कथा कैव न कापीत्यर्थः । स्पष्टककमन्यत् ॥२२१॥

संज्वरेदितिशब्दार्थविचारः ।

 सर्वथा भोक्तृत्वं न संभवतीत्यपि बोधने श्रुतितात्पर्यमित्याह, इतीति ।

इत्यभिप्रेत्य भोक्तारमाक्षिपत्यविशंकया ।
कस्य कामायेति ततः शरीरानुज्वरो न हि ॥ २२२ ॥

 इति कूटस्थचिदाभासयोर्वस्तुतो भोक्तृत्वस्य सर्वथाऽसिद्धिमभिप्रेत्य । तन्निरसनफलमाह, तत इति । एवंदर्शनस्य फलं सन्तापाभाव एवेति भावः ॥२२२॥

 आत्मज्ञानिनश्शरीरसन्तापसामान्याभावं बोधयितुं प्रतियोगिभूतानुताप त्रैविध्यं तदाश्रयत्रैविध्यप्रदर्शनपूर्वकं प्रदर्शयति, स्थूलमिति ।

स्थूलं सूक्ष्मं कारणं च शरीरं त्रिविधं स्मृतम् ।
अवश्यं त्रिविधोऽस्त्येव तत्र तत्रोचितो ज्वरः ॥ २२३ ॥

 तत्र तत्रोचितज्वरः शरीरत्रयानुरूपो ज्वरः। स्पष्टमन्यत् ॥ २२३॥

 स्थूलशरीरसन्तापानाह, वातेति ।

वातपित्तश्लेष्मजन्यव्याधयः कोटिशस्तनौ ।
दुर्गन्धित्वकुरूपत्वदाहभङ्गादयस्तथा ॥ २२४ ॥

 स्पष्टोऽर्थः । भङ्गोऽवयवादीनां वैकल्यम् ॥२२४॥

 सूक्ष्मशरीरज्वरानाह, कामेति ।

कामक्रोधाद्यः शान्तिदान्त्याद्य लिङ्गदेहगाः ।
ज्वरा द्वयेऽपि बाधन्ते प्राप्त्याप्राप्त्या नरं क्रमात् ॥२२५॥

 कामक्रोधादय:, आदिशब्देन मात्सर्यादयो भवन्ति । शान्तिदान्त्यादयः, शान्तिरन्तरिन्द्रियनिग्रहः, दान्तिर्बाह्येन्द्रियनिग्रह, एते द्विविधा अपि लिङ्गदेहगाज्वराः । द्वयेऽपि उक्ता ये द्विविधा ज्वरास्तेषां मध्ये कामादयः प्राप्त्या शान्त्यादयोऽप्राप्त्या च क्रमान्नरं बाधन्ते ॥ २५॥