वृथा कथा व्यर्था कथा कैव न कापीत्यर्थः । स्पष्टककमन्यत् ॥२२१॥
संज्वरेदितिशब्दार्थविचारः ।
सर्वथा भोक्तृत्वं न संभवतीत्यपि बोधने श्रुतितात्पर्यमित्याह, इतीति ।
इत्यभिप्रेत्य भोक्तारमाक्षिपत्यविशंकया । |
इति कूटस्थचिदाभासयोर्वस्तुतो भोक्तृत्वस्य सर्वथाऽसिद्धिमभिप्रेत्य । तन्निरसनफलमाह, तत इति । एवंदर्शनस्य फलं सन्तापाभाव एवेति भावः ॥२२२॥
आत्मज्ञानिनश्शरीरसन्तापसामान्याभावं बोधयितुं प्रतियोगिभूतानुताप त्रैविध्यं तदाश्रयत्रैविध्यप्रदर्शनपूर्वकं प्रदर्शयति, स्थूलमिति ।
स्थूलं सूक्ष्मं कारणं च शरीरं त्रिविधं स्मृतम् । |
तत्र तत्रोचितज्वरः शरीरत्रयानुरूपो ज्वरः। स्पष्टमन्यत् ॥ २२३॥
स्थूलशरीरसन्तापानाह, वातेति ।
वातपित्तश्लेष्मजन्यव्याधयः कोटिशस्तनौ । |
स्पष्टोऽर्थः । भङ्गोऽवयवादीनां वैकल्यम् ॥२२४॥
सूक्ष्मशरीरज्वरानाह, कामेति ।
कामक्रोधाद्यः शान्तिदान्त्याद्य लिङ्गदेहगाः । |
कामक्रोधादय:, आदिशब्देन मात्सर्यादयो भवन्ति । शान्तिदान्त्यादयः, शान्तिरन्तरिन्द्रियनिग्रहः, दान्तिर्बाह्येन्द्रियनिग्रह, एते द्विविधा अपि लिङ्गदेहगाज्वराः । द्वयेऽपि उक्ता ये द्विविधा ज्वरास्तेषां मध्ये कामादयः प्राप्त्या शान्त्यादयोऽप्राप्त्या च क्रमान्नरं बाधन्ते ॥ २५॥