श्रुत्युक्तं कारणशरीरसंतापमाह, स्वमिति ।
स्वं पर च न वेत्त्यात्मा विनष्ट इव कारणे । |
कारणे शरीरे आत्मा विनष्ट इव विनष्टसदृशः विनष्ट इतियावत् स्वं स्वरूपं च परं च स्वस्मिन्नध्यस्तं जगच्च न वेत्ति । स्वपरज्ञानशून्यो भवति । तदेव विनष्टसादृश्यम् । आगामिदुःखबीजं च भाव्यनुभवयोग्यस्य दुःखस्य बीजमेतद्द्वयं, “न हि खल्वत्रायमेवमि"ति (छ. ८. ११. १) छान्दोग्यवाक्ये इन्द्रेण दर्शितम् । विनष्टप्रायमागामिदुःखबीजमिति कारणशरीरस्य ज्वरौ ॥२२६ ॥
एवं शरीरत्रयं तत्तदुचितज्वरत्रितयं चाभिधाय तेषामपरिहार्यत्वमाह, एते इति ।
एते ज्वराः शरीरेषु त्रिषु स्वाभाविका मताः। |
त्रिषु त्रिविधेषु शरीरेष्वेते ज्वराः स्वाभाविकाः सहजा इति मताः। अतोऽपरिहार्या इति भावः । स्वाभाविकत्वं व्यतिरेकमुखेन दर्शयति, वियोग इति । शरीराणां ज्वरैर्वियोगे सति तु तानि शरीराण्येव नासते न विद्यन्ते ॥२२७॥
ज्वरवियोगे शरीरासस्त्वं दृष्टान्तमुखेनाह, तन्तोरिति ।
तन्तोर्वियुज्येत पटो वालेभ्यः कंबलो यथा । |
सुलभा पदयोजना । तन्तुवालमृदादिवियोगे पटकम्बलघटाद्यभावः, तद्वज्ज्वरवियोगे देहाभावः ॥ २२८ ॥
शरीरस्यैव ज्वरसन्तापः ।
कूटस्थे ज्वराभावदिदर्शयिषया चिदाभासे तदभावं दर्शयति, चिदिति ।
चिदाभासे स्वतः कोऽपि ज्वरो नाऽस्ति यतश्चितः । |