सामग्री पर जाएँ

पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१४३
कल्याणपीयूषव्याख्यासमेता

चितः कूटस्थ इति बृह्मेति च भेदेन व्यवहारदर्शनात् । तद्व्यवहारस्य कल्पितभेद मूलकत्वेऽपि ब्रह्मात्मैक्यज्ञानोपायतया सर्वैराश्रितत्वाच्च कल्पितं कूटस्थब्रह्मणोर्भेद- माश्रित्यात्र चातुर्विध्योक्तेः । इयं च कल्पना जिज्ञासूनां सुखबोधायाश्रितेति न कापि विप्रतिपत्तिः ॥ १० ॥

 घटाकाशमहाकाशौ सुविज्ञाताविति जलाकाशं विवृणोति, घटेत्यादिना ।

घटावच्छिन्नखे नीरं यत्तत्र प्रतिबिंबितः ।
साभ्रनक्षत्र आकाशो जलाकाश उदीरितः। १९ ॥

 अपरिच्छिन्नस्याव्यापकत्वेन घटान्तर्वर्तिनो महाकाशस्य घटोपाधिवशाद्धटाकाश इति नामान्तरं व्यवहारगोचरं भवति । येनावच्छिद्यते सोऽवच्छेदकं इति, योऽवच्छिद्यते सोऽवच्छिन्न इति चोच्यते । घटावच्छिन्नखे घटेन परिमित इव भासमाने घटावच्छिन्नाकाशे यन्नीरं विद्यते तत्र तादृशे जले प्रतिबिंबितः साभ्र- नक्षत्रः आकाशो जलाकाश इत्युदीरित उक्तः ॥ १९ ॥

 मेघाकाशस्वरूपं विव्रियते, महाकाशस्येति ।

महाकाशस्य मध्ये यन्मेघमंडलमीक्ष्यते ।
प्रतिबिंबतया तत्र मेघाकाशो जले स्थितः ॥ २० ॥

 स्पष्टोऽर्थः । मेघमंडले विद्यमाने जले प्रतिबिंबित आकाशो मेघाकाश इत्यर्थः ।। २० ।।

 अनुमानप्रमाणेन मेघाकाशं साधयति, मेघेति ।

मेघांशरूपमुदकं तुषाराकारसंस्थितम् ।
तत्र खप्रतिबिंबोऽयं नीरत्वादनुमीयते ॥ २१ ॥

 मेघांशरूपं मेघे सूक्ष्मावयवरूपमुदकं तुषाराकारसंस्थितं सूक्ष्मावयवरूपेण स्थितं । तत्र तुषारे नीरत्वादयं खप्रतिबिंबो घटगतजलमिवानुमीयते । प्रत्यक्षेणा- दृश्यमानत्वादूह्यत इति भावः ॥ २१ ॥