परोक्षा चापरोक्षेति विद्या द्वेधा विचारजा। |
विचारजा गुरुशास्त्रविचाराज्जाता विद्या परोक्षाऽपरोक्षेति द्वेधा भवति । तत्रापरोक्षविद्याप्तौ अपरोक्षज्ञानलाभे अयं विचारः सत्यत्वासत्यत्वविषयिकः समाप्यते अवरोक्षसाक्षात्कारोत्पत्तिक्षण एव विचारकालचरमावधिरितिभावः ॥१५॥
परोक्षापरोक्षयोः स्वरूपं दर्शयति, अस्तीति ।
अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव तत् । |
स्पष्टोऽर्थः । साक्षात्कारमेवापरोक्षज्ञानमितिभावः ॥ १६॥
साक्षात्कारसाधनं प्रतिजानीते, तदिति ।
तत्साक्षात्कारसिद्धर्थमात्मतत्त्वं विविच्यते । |
स्पष्टोऽर्थः । जगतो विभजनमेवात्मतत्त्वसाक्षात्कारसाधनम् । तदुत्तरक्षणमेव मुक्तिश्चेति भावः ॥ १७ ॥
चिच्चातुर्विध्यविचारः।
तत्साधनविवक्षयाऽदौ परमात्मनः प्रतीयमानं चिच्चातुर्विध्यमाह, कूटस्थ इति ।
कूटस्थो ब्रह्म जीवेशावित्येवं चिच्चतुर्विधा। |
स्पष्टः पूर्वार्धः । तत्र दृष्टान्तमाह । घटेति । यथा घटाकाशो महाकाशो जलाकाशाभ्रखे अभ्रे प्रतिबिंबिताकाशोऽभ्रखं इत्याकाशश्चतुर्विधो दृश्यते तथैवे- त्यर्थः । ननु चिच्चातुर्विध्यमस्मिन् प्रकरणेऽपूर्वतया प्रदर्शितं न घटते । अन्यत्र जीव ईशो विशुद्धा चिदिति, चित्रैविध्यस्योवोक्तेरिति चेन्न। अन्यत्र विशुद्धस्यैव