बाधस्वरूपं विवृणोति, नेति ।
नाप्रतीतिस्तयोर्बाधः किं तु मिथ्यास्वनिश्चयः। |
जगज्जीवयोरप्रतीतिर्युद्धावभानं बाधो न भवति । किं तु तयोंर्जीवसंसा- रित्वजगत्सत्यत्वयोर्मिथ्यात्वनिश्चयः। असत्यत्वेन निश्चयज्ञानं बाधः। ईशसृष्टे र्व्यवहारकालेऽनिवृत्तत्वात्तयोर्मृषात्मकत्ववज्ञानमवश्यकमिति भावः । नो चेत् सुषुप्ति मूर्छादौ तयोर्भानं नास्तीत्ययत्नतो गुरुशास्त्राभ्यासमंतरेणैव जनो मुच्येत मुक्तो भवेत् । गुरुशास्त्राभ्यामासादितं तन्मिथ्यात्वज्ञानमेव मोक्षकारणं न तु सुषुप्यादा वनुभूयमानं जगदादेरभानमित्यर्थः ॥ १३ ॥
परमात्माऽवशिष्यत इत्यनेन विवक्षितमर्थमाह, परमात्मेति ।
परमात्मावशेषोऽपि तत्सत्यत्वविनिश्चयः । |
जगज्जीवयोर्मिथ्यात्वज्ञानसिद्धौ परमात्मावशषः परमात्मनः परिशिष्टता नाम तत्सत्यत्वविनिश्चयः परमात्मैव सत्यमिति दृढज्ञ|नमेव । ननु नेति नेतीति सर्ववस्तूनामपहाने यदवशिष्यते तदेव परमात्मेत्युक्तत्वाकि तत्स्वरूपनिश्चयप्रयल गौरवेण ? जगतो मिथ्यात्वज्ञानेनैव तद्विस्मृत्या बंधकप्रपंचनिवृत्तेः। अतः परमात्माऽवशिष्यत इत्यनेन जगद्विस्मृतिरूपावशेष एव विचक्षणीय इत्याशंक्याह । नेति । जगद्विस्मृतिः जगतोऽभानं नावशेषः । नो चेत् जगद्विस्मृतिरेवावशेष इत्युच्यते चेत् , जीवन्मुक्तिः जीवत एव प्राक्छरोरपातान्मुक्तिः ब्रह्मभावापत्तिर्न संभ वेत् । जगतो मिथ्यात्वेऽपि तद्भानस्य शरोरपातात्प्रागपरिहार्यतया जगद्विस्मृतेस्तदा नीमसत्वाज्जीवतस्सतो ब्रह्मभावापत्तेरसंभवादिति भावः ॥ १४ ॥
परोक्षापरोक्षविद्यास्वरूपविचारः।
सदा विचारयेदित्यत्र विवक्षितकालावधिमाह, परोक्षेति । |