चितः कूटस्थ इति बृह्मेति च भेदेन व्यवहारदर्शनात् । तद्व्यवहारस्य कल्पितभेद मूलकत्वेऽपि ब्रह्मात्मैक्यज्ञानोपायतया सर्वैराश्रितत्वाच्च कल्पितं कूटस्थब्रह्मणोर्भेद- माश्रित्यात्र चातुर्विध्योक्तेः । इयं च कल्पना जिज्ञासूनां सुखबोधायाश्रितेति न कापि विप्रतिपत्तिः ॥ १० ॥
घटाकाशमहाकाशौ सुविज्ञाताविति जलाकाशं विवृणोति, घटेत्यादिना ।
घटावच्छिन्नखे नीरं यत्तत्र प्रतिबिंबितः । |
अपरिच्छिन्नस्याव्यापकत्वेन घटान्तर्वर्तिनो महाकाशस्य घटोपाधिवशाद्धटाकाश इति नामान्तरं व्यवहारगोचरं भवति । येनावच्छिद्यते सोऽवच्छेदकं इति, योऽवच्छिद्यते सोऽवच्छिन्न इति चोच्यते । घटावच्छिन्नखे घटेन परिमित इव भासमाने घटावच्छिन्नाकाशे यन्नीरं विद्यते तत्र तादृशे जले प्रतिबिंबितः साभ्र- नक्षत्रः आकाशो जलाकाश इत्युदीरित उक्तः ॥ १९ ॥
मेघाकाशस्वरूपं विव्रियते, महाकाशस्येति ।
महाकाशस्य मध्ये यन्मेघमंडलमीक्ष्यते । |
स्पष्टोऽर्थः । मेघमंडले विद्यमाने जले प्रतिबिंबित आकाशो मेघाकाश इत्यर्थः ।। २० ।।
अनुमानप्रमाणेन मेघाकाशं साधयति, मेघेति ।
मेघांशरूपमुदकं तुषाराकारसंस्थितम् । |
मेघांशरूपं मेघे सूक्ष्मावयवरूपमुदकं तुषाराकारसंस्थितं सूक्ष्मावयवरूपेण स्थितं । तत्र तुषारे नीरत्वादयं खप्रतिबिंबो घटगतजलमिवानुमीयते । प्रत्यक्षेणा- दृश्यमानत्वादूह्यत इति भावः ॥ २१ ॥