पृष्ठम्:वेदान्तकल्पतरुः.pdf/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५२
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.२५-२६
 

घ घशित्वादयः श्रयन्ते न सर्वेषां ध्येयत्वेन विधानमित्यन्यत्र गतामामपि न ध्येयत्वं स्तुत्यर्थत्वं तु स्यात्तदपि न शब्दस एषां सच नयनमपेक्षते सत्य कामत्वादिसमदेव सर्वेश्वरत्वादिसिद्धेः । अतो ऽन्तर्भवमयमुपसंहार इत्यर्थः । यस्तु सर्वेषि विद्या गुणेति मन्यमान इह साक्षाद् गुणे पसंहा रमाह तस्य न स्थानते ऽपीत्यधिकरणं व्याचक्षीत । एकत्रेति । य एषे ऽन्तर्दूदयआशकस्तस्मिञ्छेते इत्याकाशधारत्वस्य श्रवणादित्यर्थः । आ काश आधारो यस्य तस्य भावस्तत्त्वम् । अपरत्रेति । दहरो ऽस्मिन्नन्तः राकाश इत्यत्र गुणवत आकाशात्सत्वगुणप्रघणादित्यर्थः । छान्दोग्ये आत्मे घाकशात्मत्वेनाक्तः बृहदण्यके सु हृदयपुण्डरीकान्सर्वेन्निभेतिकदहराका शाश्रित आत्मा वशित्वादिगुणक उक्त इति न रूपभेद यह आr काशशब्देनेति । नन्वत्मयतां सगुणनिर्गुणत्वेन तु भेदात्कथं गुuएस हार इति तचाथिकरणारम्भसमयेंनावसरोक्तं परिहारं स्मारयति सगुणेति ।

६४७ । १७
आदरादलेपः ॥ ४० ॥

उपस्तिलोपे ऽपि स्तुत्यर्थत्वेन गुणलेपवत् पूर्वे ऽतिथिभ्य इत्या दिस्तुत्युपपन्यथै भेजनलो ऽपि प्राणाग्निहेशलेप इत्यत्रान्तरसङ्गतिः । पादसङ्गतिमाह अस्तीति । पूर्वभाजनमिति तद्यदुक्तं प्रथममिति वाक्यवि. हिसं प्राणाग्निहोत्रमित्यर्थः ।

पदकर्मेति । एकहायन्या। क्रीणातीति प्रकृत्य भूयते । षट् पदान्यनुनिः ष्क्रामति सप्रमं पदमञ्जलिना रौति यर्हि हविर्धाने प्राची प्रवर्तयेयुस्तर्हि तेनामुपायादिति । सोमक्रयाएँ नीयमानाया एकहायन्यः षट्पदन्यनुगः च्छेदध्वर्युः सप्तमपदबिम्बगसर्पांसूनञ्जलिना ग्रीयाद् गृहीत्वा स्थापयेतुयुन ऍस्मिन् दिवसे हविर्द्धने शकटे द्वे प्रह्खे प्रवर्तयेयुस्तदा तेन पांसुना ऽहं रथस्यऽनयेलिम्पेदित्यर्थः । तत्र संशय: । यदेतदशभ्यऽञ्जनं सप्रमपदसध्यं तदर्थमप्येकहायनीनयनम् । अतश्च तेनापि प्रयुज्यते उत त्र्यार्थमेव सतश्च सेनेव प्रयुज्यते इति तत्र द्वयोरप्येकहायनीनयनसाध्यत्वात्कस्य चिदपि धा क्यते विशेष संबन्धऽनवगमात् संनिध्यविशेषाच्चोभयार्थत्वं प्रापय्य चतुर्थे सिद्धान्तितम् । यद्यपि क्रयनयनये।ने सदस्ति वाक्यकृतः संबन्धः तथा


४५२ व्या” सु• अ• ३ घ• २ सू ९९ ।