पृष्ठम्:वेदान्तकल्पतरुः.pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४६
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.२०-२१
 

पूर्वचाधिकरणां प्रारब्धकर्मणा एव शरीरान्तरारम्भसंभवेनकर्मान्तरस्य निमित्ततेत्युक्तम् एवमिहापि तत्तत्प्रकरणपठित्तनिषेधेभ्य रावेपलक्षणतया सर्वप्रपञ्चनिषेधसिद्धेर्न शाखान्तरीयनिषेधानां तच ब्रह्मप्रमितिहेतुत्वमित्याशङ्कयते । अतरस्य थिये ऽक्षरधिय : ।

अक्षरे धर्मिणि प्रपञ्चप्रतिषेधधिय इत्यर्थे सूचपदं व्याचष्ट अक्षरविषयाणामिति । प्रतिषेध
सामान्यादिति । प्रतिषेधानां भूमनिवर्तकत्वसामान्यादित्यर्थः । तस्यैवैष

३९ । २१ प्रपञ्च इति । अस्यार्थः ।

भवेद् ब्रह्मस्वरूपत्वादानन्दाद्युपसंहृतिः ।
निषेधानामनात्मत्वात्रोपसंहारसंभवः ॥
आनन्त्याच्च निषेधयानां निषेधथियामपि ।
असंख्येयत्तयैकच कथं शक्यापसंहृति ॥

इत्याशङ्कानिवृत्त्यर्थमेतदधिकरतम् । निवृतिप्रकारस्सु

प्रतिषेधा अनात्माने ऽप्यात्मनक्षणतां गता: ।
आत्मप्रमित्तिसिद्धार्थे संयास्यन्त्यमृतस्यले ॥

न च निषेधानन्त्यादनुपसंहारः ।

प्रपञ्जो हिँ निषेध्यो ऽच भूतं वा भेतिकानि वा ।
इन्द्रियाणि शरोरं वा ऽविद्या वा विश्वकारणम् ।
एषां परिमित्तत्वेन निषेधपरिमेयत्त: ।
साकाङ्गेषु निषेधेषु गच्छेयुः पूर्तये परे ।

तचाप्यस्यलघावयपरिपणे निषेध: प्रस्यलमित्याद्यदीर्घमित्यन्तेन शरीरनिषेधात् । अत्तम इत्यविद्यानिषेधात् । अबादद्या नाकाशमिति भूतनिषेधात् । अचतष्कमित्यादिनेन्द्रियनिषेधात् । अन्यच त्वस्मादुपसं हार इति सूचयितुं भगवता सूचकारेणावरधियामित्युक्तम् । भाष्यकारेणै। यसदवदिति सूचोक्तदृष्टान्तविवरणाय जामदग्न्याहीनगतमन्त्रा उदाहृताः । तण्व गुणा मुख्याधिकरणविषया इति च सूचित्तम् । प्रधानकर्मत्वाचाङ्गाना


  • संभवादिति १ पुः पाः ।