पृष्ठम्:वेदान्तकल्पतरुः.pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७९
ब्रह्मणाः सद्रूपत्वम् ।

ब्रह्मणे रूपमित्यर्थः । अथात आदेश इत्यचात:शञ्टार्थमाह यत इति तदुक्तिहेतुकमित्यन्तेन । मध्ये अयशब्दार्थमाह तस्यानन्तरमिति । सत्यसत्यस्येति । व्यावहारिकस्य सत्यस्य प्रपञ्चस्य य: सत्य आत्मा ५६३ । ५ तस्येत्यर्थः । न ह्येत्तस्मादिति नेत्यपरमस्तीत्युन्नरवाक्यं व्याचष्ट ननु किमेतावदेवेति । इति नेत्यादिष्टाटेत्तस्मादन्यत्परमुत्कृष्टं न ह्यस्तीति वाक्यये जना दर्शिता । णवंशब्दस्यार्थ गवाथै यस्य स एवभर्यस्तेन इतिना इतिशब्देनेत्यर्थः । तदवच्छेदकत्वेनेवि । कस्य रुपट्टय.मत्ययेक्षायां ब्र ह्मण इत्येवंमूपेण विशेषत्वेनेत्यर्थः । अथ सवासनं रूपद्वयमित्यचापि प्रति षिध्यतइत्यनुषङ्गः । ब्रह्मप्रतिषेधेन पूर्वपक्षस्यानुत्थानम्माशङ्काह यद्यपी त्यादिना । सद्बेधरूपमिति । वेधत्वेन रुपत्वेन विशेषात्मकत्वमुक्तं ति सामान्यात्मत्वम् । तच सवासनमूनोऽमूर्तसाधारणत्वेन व्यक्तीकृतं निर्विशेयं यत्तत्सामान्यं न भवेदिति येIजना । उपासनाविधानवदिति । सत्येवास्तीत्युपलब्धिदृष्टिर्बिधीयते इतिशञ्टाशिरस्कत्वाऽविशेषादित्यर्थः । तत्प्रशंसार्थमिति । अस्तित्वदृष्टिविधिप्रशंसार्थमसन्नेव स भवति असद्र झेति वेद चदित्यसट्राधज्ञाननिन्टेत्यर्थः । सम्भमन्त्स्य ते सम्बटेा भविष्यति । कं विटुर्मिणमनाश्रित्य निषेधाऽयेगात्यक्षान्तरमाह अथ चेति । नन् पष्यन्तशब्टाटुपसजनत्वेन प्रस्तुत्तं ब्रह्म कथं निषेधेन संबध्यते तचाह येग्यत्वादिति । अप्रमित्तत्वमेव निषेधयेग्यत्वम् । ननु विशेषाणां निषेधे सामान्यस्याप्ययेोगाच्छून्यवादप्रसङ्ग इत्याशङ्क सामान्यविशेषभावा ब्रह्म गत्ता ऽसिट्ट इत्याह उपाधय इति । शेाणेा लेहित । कर्क ईथल्लो हित: । निर्विशेयं सामान्यं न भवेदित्युक्तं तच निषेधेन निषेधयसत्तानिि ध्यते सा किमयैस्वभावभूत्ता उत्त प्रमाणसम्बन्धात्मिका । द्वावपि पद्धतौ नेत्याह अभावे ऽप्रतीतिर्वेति । शशविषाणायमानता शशविषाणतुल्यता । ५६४ । २० ननु न वयं विशेषात्मजगन्निषेधेनार्याद् ब्रह्मनिषेध्यं ब्रूमः किं तु रुपद्धयवत् सन्निथानाऽविशेषाद् ब्रह्मणे ऽपीति शब्देन प्रतिपेथ्यत्वेनेापानत्वात्साक्षादुर्भ यनिषेधमित्यत आह न चेतीति । भावमनाश्रित्याश्रयत्वेनानुपादाय प्रति