पृष्ठम्:वेदान्तकल्पतरुः.pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८०
वेदान्तकल्पतरौ [त्र्प्र.३ पा.२ त्र्प्रधि.६
 

५६५ । १ ऽन्वयमुखेनाप्याह किं चिद्धोति । प्रतीतावप्यभावस्याप्रयायेदतामाह न ह्य नाश्रय इति । वेदान्तेषु ब्रह्मप्रतिपादनस्य निषेध्यसम्पैकत्ताया: पूर्वपक्षे उक्तत्वाट् ब्रह्म ते ब्रवाणीत्याद्युपक्रमविरोथादित्यादिभाष्योक्तहेतुना शङ्कि तान्यथासिटीनां सिटुवद्ब्रह्मप्रतिषेधवारकत्वायेागं मत्वा भाष्ये ऽर्थात्सू चितं हेतुं विवृणेति युक्तमेित्यादिना । नैसर्गिकाविद्याप्रा: प्रपषः । तिषिध्यतइति यत्तद्युक्तमित्यर्थः । किं भ्रमसिटं ब्रह्म प्रतिषिध्यते उत्त प्रत्य वादिसिद्धम् आहे शास्त्रसिद्धम् । नाद्य इत्याह ब्रह्म त्विति । सट्रय त्वेन निर्वचनीयत्वादित्यर्थः । न द्वितीय इत्याह नापीति । तृतीयम नूद्य दूषयति तस्मादिति । ननु शास्त्रप्रमिते ऽपि प्रतिषेध: प्रमाणवान् भवेद् विधिप्रतिषेथयेस्तुल्यबलत्वेन विकल्पसम्भवादित्याशङ्का न च पर्युदासेति । पर्युदासाधिकरणं गुणेrपसंहारे हानै तूपायनशब्दशेषत्वा दित्यच स्वयमेवानुक्रमिष्यति सचेव त्यवैधता ऽपि द्रष्टव्य । तच यथा विधिग्रामस्य यागेषु येयजामहकरणस्य सर्वात्मना नानूयाजेष्विति प्रतिषेधेन घारयितुमशक्यत्वाद् अनुयाजेषु येयजामहविझल्य: एवमच सत्वाऽसत्त्व येर्न विकल्पों वस्तुनि तदथेगात् । पुरुषप्रवृत्तिनिवृत्त्यो: प्रागेव तस्यैक्र स्रपत्वेन सिद्धत्वादित्यर्थः । यद्भव वाङ्कनसाऽगेIचरत्वेन प्रमाणविरोधाभावाद् ब्रह्मणः प्रतिषेध इत्युक्तं तन्न । तया सति येाग्यप्रया निषेधाऽयेागादि त्याह न चाऽसत्यामिति । अयं हिँ निषथ : सन्निहितप्रपञ्जविषयत्वेन निराकाङ्को न दूरस्येन ब्रह्मणा संबध्यते । यद्यपि ब्रह्मणे ऽपि सन्निध्या नमविशिष्टं बृहदारण्यके एतन्निषेथं प्रति तथापि षष्ठयन्तत्वेनापसर्जनत्वान्न तस्य निषेधेन सम्बन्ध इति वदयति प्रधानं प्रकृतमिति ग्रन्थेन । सन्निधि तमपि प्रपञ्षं प्रमाणाऽविरोधादुपेत्य प्रतिषेथे। दूरस्थं ब्रह्माकाङ्कर्तीत्याशङ्का यचेति । ब्रह्मनिषेधे ऽप्यस्ति प्रमाणाऽविरोथेा घेदान्तानां तञ्च प्रमाणत्वा दित्याह प्रतिपादयन्ति वेदान्ता इति । अनुपपत्तेरितेि । शास्त्रप्रमित निषेधे हि विकल्पः स्यात्तस्य च वस्तुन्यनुपपत्तिरित्युक्तम् त्यर्थः । अध