पृष्ठम्:वेदान्तकल्पतरुः.pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५०
वेदान्तकल्पतरौ [त्र्प्र.३ पा.१ त्र्प्रधि.२
 

त्वेन विधानादत्त आह न चावशेषेति । तिष्ठासन् स्यातुमिच्छन् भुवि शेषफलभाग इत्यर्थः । हस्तिनां समूहेो हास्तिकम् । अश्वानां समूहे। ५३४ । १० ऽश्वीयम् । तन्मूला चेति । दृष्टन्यायमूला लेकिर्की कालिदासादिस्मृति रित्यर्थः ।

वेदैर्गतां सुकृतशकलैः स्वर्गिणां भूमिभागे
भागप्रामिं कथयति पुरी वणेयनु कालिदासः ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गत्तानां
शेषं: पुण्येहूँत्तमिव दिवः कान्तिमत्खण्डमेकमु ॥

श्रय वा तत्त: शेषेणेत्यादैव स्मृतिलैकिंकी । अस्मिन्पक्षे तन्मले त्यस्य विवरण । लेकिक्रन्यायमूलेत्यर्थः । श चास्या: स्मृतेर्धटे। ऽनुमातुम् । गुडजिह्निका मधुरोक्तिः । नैव युक्तमि त्युक्तेनैछुयै स्यादिति । यत्त स्वर्गसुखं भुवि भाक्तव्यमिति तचाह शब्दैक गम्ये ऽर्थे इति । भाण्डस्त्रहवत् सामान्यता दृष्टन हि कर्मशेषे ऽनुमित तस्य च भुवि भाग: कल्पित्त: त्तत्सर्व स्वर्गेौट्टेशेन यागविधिना विरुध्यते भैमसुखस्य स्वर्गत्वायेगादित्यर्थः । अत एव स्मात्तेः शेषशब्दो ऽपि न भक्तकर्मण: शेयं वक्ति किं तु कर्मराशिमध्ये ऽनपभक्त कर्मान्तरमिति । कवि रपि दिवः खण्डमिवेत्ति परमपमिमानेा भवेि भेगमाह प्रायणेनेति । पूर्वदेहावसानकालनेनेत्यर्थः । युगपदेव तत्फलानि भुज्येरन्निति । इदानीमित्यर्थः । ननु युगपदभिव्यक्तान्यपि कर्माणि क्रमेण फलं ददत्तामत्त आह न चाभिव्यक्तमिति । ननु स्वर्गादिभुजः स्वर्गादिभागानन्तरं पर कर्मभि: संसरन्तु नेत्याह न चेति । निरनुशया एवेति । अनिहा चादिकर्मयूर्वरहिता इत्यर्थः । आचारस्य यागादिवट् न प्रथानकर्मत्वेन ५३६ । ४ पुरुषार्थत्वमित्याह स्नानादिवदिति

ज्योतिष्टोमे प्रयते तीर्थ स्नाति तीर्थमित्र हि सजातानां भवती ति । दर्शपूर्णमासयेरप्याम्त्रायते जञ्जभ्यमाने ऽनुब्रूयान्मयि दतक्रतू इति तच तीर्थस्तानं जम्भानिमित्तमन्त्रोच्चारणं च किं प्रकृतक्रतुधर्म उत्त शुद्धमनुष्यधर्मः प्रकृतक्रतुयुक्तमनुष्यधर्मो वेति संदे हे न तावत्प्रकृतक्रतुष्धर्मत्वं वाक्येन पुरुषधर्मत्वप्रतीतेः । प्रकरणाच्च वाक्यस्य