गान्धारी--जाद ! एदं एव्व संपदं प्पभूदं जं तुमं वि दाव एक्को णाणुसोचइदव्वो । ता जाद ! प्पसीद । एसो अंजली । णिवट्टेहि सममरव्वावारादो । अपच्छिमं करेहि पिदुणो वअणाम् । ( जात ! एतदेव सांप्रतं प्रभूतं यत्त्वमपि तावदेको नानुशोचितव्यः । तज्जात ! प्रसीद । एष तेऽञ्जलिः । निवर्तस्व समरव्यापारात् । अपश्चिमं कुरु पितुर्वचनम् )
धृतराष्ट्रः --वत्स ! श्रृणु वचनमम्बाया मम च निहताशेषबन्धुवर्गस्य । पश्य ।
दायादा न ययोर्बलेन गणितास्तौ द्रोणभीष्मौ हतौ |
दुर्योधनः--समरात्प्रतिनिवृत्य किं मया कर्तव्यम् ? ।
गांधारी--जाद ! जं पिदा दे विउरो वा भणादि । ( जात ! यत्पिता ते विदुरो वा भणति ।)
संजयः--देव ! एवमिदम् ।
दुर्योधनः--संजय ! अद्याप्युपदेष्टव्यमस्ति ? ।
संजयः--देव ! यावत्प्राणिति तावदुपदेष्टव्यभूमिर्विजिगीषुः प्रज्ञावताम् ।
दुर्योधनः--( सक्रोधम् । ) शृणुमस्तावद्भवत एव प्रज्ञावतोऽस्मान्प्रति प्रतिरूपमुपदेशम् ।
धृतराष्ट्रः--वत्स ! युक्तवादिनि संजये किमत्र क्रोधेन ? यदि प्रकृतिमापद्यसे तदहमेव भवन्तं ब्रवीमि । श्रूयताम् ।
दुर्योधनः--कथयतु ततः ।
धृतराष्ट्रः--वत्स ! किं विस्तरेण ? । संधत्तां भवानिदानीमपि युधिष्ठिरमीप्सितपणबन्धेन ।
दुर्योधनः--तात ! तनयस्नेहवैक्लव्यादम्बा बालिशत्वेन संजयश्च काममेवं ब्रवीतु । युष्माकमप्येवं व्यामोहः ? । अथ वा प्रभवति पुत्रनाशजन्मा हृदयज्वरः । अन्यच्च ! तात ! अस्खलितभ्रातृशतस्तदाऽवधीरितवासुदेवसा