धृतराष्ट्र:--वत्स दुर्योधन! किमकृतपूर्वः संप्रति मय्यप्ययमव्याहारः ? ।
गान्धारी-- वच्छ ! जइ तुमं वि अम्हे णालवसि ता किं संपदं वच्छो दुस्सासणो आलवदि अध दुम्मरिसणो वा अण्णो वा ? ( वत्स! यदि त्वमप्यस्मान्नालपसि तत्किं सांप्रतं वत्सो दुःशासन आलपत्यथ दुर्मर्षणो वान्यो वा ? )
( इति रोदिति )
दुर्योधन--
जातोऽहमप्रतिकृतानुजनाशदर्शी |
गान्धारी--जाद ! अलं परिदेविदणे । तुमं वि दाव एक्को इमस्स अन्ध जुअलस्स मग्गोवदेसओ । ता चिरं जीव । किं मे रज्जेण जएण वा । ( जात! अलं परिदेवितेन । त्वमपि तावदेकोऽस्यान्धयुगलस्य मार्गोपदेशकः । तच्चिरं जीव । किं मे राज्येन जयेन वा ? । )
दुर्योधनः--
मातः! किमप्यसदृशं कृपणं वचस्ते |
नूनं विचेष्टितमिदं सुतशोकस्य ।
संजयः–- महाराज! किं वायं लोकवादो वितथो 'न घटस्य कूपपतने रज्जुरपि तत्र प्रक्षेप्तव्या' इति ।
दुर्योधनः--अपुष्कलमिदम् । उपक्रियमाणाभावे किमुपकरणेन ?
( इति रोदिति ।)
धृतराष्ट्रः--(दुर्योधनं परिष्वज्य । ) वत्स! समाश्वसिहि । समाश्वासय चास्मानिमामतिदीनां मातरं च ।
दुर्योधनः–- तात! दुर्लभः समाश्वास इदानीं युष्माकम् । किं तु
कुन्त्या सह युवामद्य मया निहतपुत्रया । |