पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७
पञ्चमोऽङ्कः ।

मोपन्यासः संप्रति दृष्टपितामहाचार्यानुजराजचक्रविपत्तिः स्वशरीरमात्रस्नेहादुदात्तपुरुषव्रीडावहमसुखावसानं च कथमिव करिष्यति दुर्योधनः सह पाण्डवैः संधिम् ? । अन्यच्च नयवेदिन्संजय!

हीयमानाः किल रिपोर्नृपाः संदधते परान् ।
दुःशासनेन हीनोऽहं सानुजः पाण्डवोऽधुना ॥ ६ ॥

 धृतराष्ट्रः-- वत्स! एवं गतेऽपि मत्प्रार्थनया न किंचिन्न करोति युधिष्ठिरः । अन्यच्च सर्वं दैवापकृष्टं मन्यते युधिष्ठिरः ।

 दुर्योधनः--कथमिव ? ।

 धृतराष्ट्र:-- वत्स! श्रूयतां प्रतिज्ञा युधिष्ठिरस्य । नाहमेकस्यापि भ्रातुर्विपत्तौ प्राणान्धारयामीति । बहुच्छलत्वात्सङ्ग्रामस्यानुजनाशमाशङ्कमानो यदैव भवते रोचते तदैवासौ सज्जः संधातुम् ।

 संजयः--एवमिदम् ।

 गान्धारीः-- जाद । उपपत्तिजुत्तं परिवज्जस्स पिदुणो वअणम् । ( जात ! उपपत्तियुक्तं प्रतिपद्यस्व पितुर्वचनम् । )

 दुर्योधनः--तात ! अम्ब ! संजय !

एकेनापि विनाऽनुजेन मरणं पार्थः प्रतिज्ञातवा-
 न्भ्रातॄणां निहते शतेऽभिलषते दुर्योधनो जीवितुम् ।
तं दुःशासनशोणिताशनमरिं भिन्नं गदाकोटिना
 भीमं दिक्षु न विक्षिपामि कृपणः संधिं विदध्यामहम् ॥ ७ ॥

 गान्धारीः--हा जाद दुस्सासण ! हा मदङ्कदुल्ललिद ! हा जुअराअ | अस्सुदपुव्वा क्खु कस्स वि लोए ईदिसी विअत्ती । हा ! वीर । सदप्पसविणी हदगन्धारी दुक्खसदं प्पसूदा । ण उण सुदसदम् । ( हा जात दुःशासन । हा मदङ्कदुर्ललित! हा युवराज! अश्रुतपूर्वा खलु कस्यापि लोक ईदृशी विपत्तिः । हा वीरशतप्रसविनी हतगान्धारी दुःखशतं प्रसूता । न पुनः सुतशतम् ।)

( सर्वे रुदन्ति )

 संजयः-- (बाष्पमुत्सृज्य ।) तात! अम्ब! प्रतिबोधयितुं महाराजमिमां भूमिं युवामागतौ । तदात्मापि तावत्संस्तभ्यताम् ।