देवकीनन्दनेन केशबन्धनमारभ्यतामिति । तदुपनय मे फुल्लपुष्पदामानि । विरचयत दारिकाः कबरीम् । कुर्मो भगवतो नारायणस्य वचनम् । न खलु सोऽलोकं संदिशति । अथवा किं मया संततया भणितम् । अचिरगतमार्यपुत्रमनुगमिष्यामि । महाराज ! आदीपय मे चिताम् । त्वमपि क्षत्रधर्ममनुबध्नन्नेव नाथस्य जीवितहरस्याभिमुखो भव ।
युधिष्ठिरः--युक्तमाह पाञ्चाली । कञ्चुकिन् ! क्रियतामियं तपस्विनी चितासंविभागेन सह्यवेदना । ममापि सज्जं धनुरुपनय । अलमथवा धनुषा ।
तस्यैव देहरुधिरोक्षितपाटलाङ्गी । |
राक्षसः--राजन् ! रिपुजयविमुखं ते यदि चेतस्तदा यत्र तत्र वा प्राणत्यागं कुरु । वृथा तत्र गमनम् ।
कञ्चुकी--धिङ्मुने ! राक्षससदृशं हृदयं भवतः ।
राक्षसः--( सभयं स्वगतम् । )किं ज्ञातोऽहमनेन ? । ( प्रकाशम् । )
भोः कञ्चुकिन् ! तयोर्गदया खलु युद्धं प्रवृत्तमर्जुनदुर्योधनयोः । जानामि च तयोर्गदायां भुजसारम् । दुःखितस्य पुनरस्य राजर्षेरपरमनिष्टश्रवणं परिहरन्नेवं ब्रवीमि ।
युधिष्ठिरः--( बाष्पं विसृजन् ।)साधु महर्षे ! साधु । सुस्निग्धमभिहितम् ।
कञ्चुकी--महाराज ! किं नाम शोकान्धतया देवेन देवकल्पेनापि प्राकृतेनेव त्यज्यते क्षात्रधर्मः ।
युधिष्ठिरः--आर्य जयंधर !
शक्ष्यामि तौ परिघपीवरबाहुदण्डौ |
अयि पाञ्चालराजतनये ! मद्दुर्नयप्राप्तशोच्यदशे ! यथा संदीप्यते पावकस्तथा सहितावेव बन्धुजनं संभावयावः ।