युधिष्ठिरः--( आकाशे )अम्ब पृथे ! श्रुतोऽयं तव पुत्रस्य समुदाचारः ? मामेकमनाथं विलपन्तमुत्सृज्य क्वापि गतः । तात जरासंधशत्रो ! किं नाम वैपरीत्यमेतावता कालेनाल्पायुषि त्वयि समालोकितं जनेन ? अथवा मयैव बहूपलब्धम् ।
दत्वा मे करदीकृताखिलनृपां यन्मेदिनीं लज्जसे |
मुने ! किं कथयसि ? ('तस्मिन्कौरवभीमयोः' ( ६।१६ ) इत्यादि पठति ।)
राक्षसः--एवमेतत् ।
युधिष्ठिरः--धिगस्मद्भागधेयानि ! भगवन्कामपाल ! कृष्णाग्रज ! सुभद्राभ्रातः !
ज्ञातिप्रीतिर्मनसि न कृता क्षत्रियाणां न धर्मो |
( द्रौपदीमुपगम्य । ) अयि पाञ्चाली ! उत्तिष्ठ । समानदुःखावेवावां भवावः । मूर्छया किं मामेवमतिसंधत्से ? ।
द्रौपदी--( लब्धसंज्ञा । )बन्धेन्दु णाहो दुज्जोहणरुहिरुल्लिदेण हत्थेण दूसासणविमुक्कं मे केसहत्थम् । हञ्जे बुद्धिमदिए ! तुह वि पच्चक्खं एव्व णाहेण पडिण्णादम् । ( कञ्चुकिनमुपेत्य ।) अज्ज । संदिट्ठं दाव मे देवेण देवकी णन्दणेण केसबन्धणं आरहीयदु त्ति । ता उवणेहि मे पुल्लपोप्फदामाइं । विरएह दारिआओ कबरीम् । करेह्म भअवदो णाराअणस्स वअणम् । ण हु सो अलीअं संदिसदि । अहवा किं मए संतत्ताए भणिदम् । अचिरगदं अज्जउत्तं अणुगमिस्सम् ( युधिष्ठिरमुपगम्य । )महाराअ ! आदीवेहि चिदम् तुमं वि खत्तधम्मं अणुबन्धन्तो एव्व णाहस्स जीविदहरस्स अहिमुहो होहि । ( बध्नातु नाथो दुर्योधनरुधिरार्द्रेण हस्तेन दुःशासनविमुक्तं मे केशहस्तम् । हञ्जे बुद्धिमतिके ! तवापि प्रत्यक्षमेव नाथेन प्रतिज्ञातम् । आर्य ! संदिष्टं तावन्मे देवेन