पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१
वेणीसंहारे

 द्रौपदीः--अज्ज ! करेहि दारुसंचअम् । ( सर्वतोऽवलोक्य । ) कहं ण को वि महाराअस्य वअणं करेदि । हा णाह भीमसेण । अज्ज तुए विणा महाराओ परिअणेण वि परिहवीअदि । ( आर्य ! कुरु दारुसंचयम् । कथं न कोऽपि महाराजस्य वचनं करोति । हा नाथ भीमसेन ! अद्य त्वया विना महाराजः परिजनेनापि परिभूयते । )

 राक्षसः--सदृशमिदं भरतकुलवधूनां यत्पत्युरनुमरणम् ।

 युधिष्ठिरः--महर्षे ! न कश्चिच्छृणोति तावदावयोर्वचनम् । तदिन्धनप्रदानेन प्रसादः क्रियताम् ।

 राक्षसः--मुनिजनविरुद्धमिदम् । ( स्वगतम् । ) हन्त पूर्णो मे मनोरथः । यावदनुपलक्षितः समिन्धयामि वन्हिम् । ( प्रकाशम् । )राजन् न शक्नुमो वयमिहैव स्थातुम् । ( इति निष्क्रांतः ।)

 युधिष्ठिरः--कृष्णे ! न कश्चिदस्मद्वचनं करोति । भवतु । स्वयमेवाहं दारुसंचयं कृत्वा चितामादीपयामि ।

 द्रौपदी--तुवरेदु तुवरेदु महाराओ । ( त्वरतां त्वरतां महाराजः । )

( नेपथ्ये कलकलः ।)

 द्रौपदी--( सभयमाकर्ण्य । )महाराअ ! कस्स वि एसो बलदप्पिदस्स विसमो सङ्खणिग्घोसो सुणीअदि । अवरं वि अप्पिअं सुणिदुं अत्थि णिब्बन्धो तदो विलम्बीअदि ? । ( महाराज ! कस्याप्येष बलदर्पितस्य विषमः शङ्खनिर्घोषः श्रूयते । अपरमप्यप्रियं श्रोतुमस्ति निर्बंधस्ततो विलम्ब्यते । )

 युधिष्ठिरः--न खलु विलम्ब्यते । उत्तिष्ठ ।

( इति सर्वे परिक्रामन्ति ।)

 युधिष्ठिरः--अयि पाञ्चालि अम्बायाः सपत्नीजनस्य च किंचित्संदिश्य निवर्तय परिजनम् ।

 द्रौपदी--महाराअ ! एव्वं अम्बाए संदेसिस्सम्--जो सो बअहिडिम्बकिम्मीरजडासुरजरासंधविजअमल्लो सो वि दे मज्झमपुत्तो मह हदासाए पक्खवादेण परलोअं गदो त्ति । ( महाराज ! एवं अम्बायै संदेक्ष्यामि-–यः स बकहिडिम्बकिर्मीरजटासुरजरासंधविजयमल्लः सोऽपि ते मध्यमपुत्रो मम हताशायाः पक्षपातेन परलोकं गत इति ।)

 युधिष्ठिरः--भद्रे बुद्धिमतिके । उच्यतामस्मद्वचनादम्बा ।